This page has been fully proofread once and needs a second look.

३३०
 
नारायणीये
 
[स्कन्ध: - १
 
पुष्टिरिति । पूर्वपक्षप्रतिपदमारभ्य क्रमाद् दूरैर[^१]स्थितस्यादित्यमण्डलस्य पञ्चदशः

पञ्चदशो भागो जलमये चन्द्रमण्डले प्रतिबिम्बितो दृश्यते। ते प्रतिबिम्बाश्चन्द्रस्य

कला इत्युच्यन्ते । यथा तासामेव पुष्टिं नष्टिं च विद्यां, न शशिनः, तद्वत् तनोरेव

जन्मास्तित्व विपरिणामविवृद्ध्यपक्षयविनाशरूपाः षड् भावविकाराः, न त्वात्मन इति

विद्यामित्यर्थः । आदित्यदृष्टान्तेनावगन्तव्यमाह--तोयादीति । यथैको[^२] मार्तण्डो-

ऽनेकेषु घटोदकादिषु व्यस्तोऽनेको दृश्यते, तद्वत् तनुषु सर्वशरीरेषु आत्मन उपा-

धिभेदेन भेदप्रतीतावप्येकतामपि[^३] च विद्याम् । त्वत्प्रसादादिति सर्व[^४]त्र योज्यम् ॥
 

 
स्नेहाद् व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं
 

प्राप्तं प्राश्नन् सहेयैयं[^५] क्षुधमपि शयुवत् सिन्धुवत् स्यामगाधः ।
मा प

मा पप्
तं योषिदादौ शिखिनि शलभवद् भृङ्गवत् सारभागी

भूयासं किन्तु तद्वद् धनचयनवशान्माहमीश! प्र[^*]णेशम् ॥ ५ ॥
 

 
स्नेहादिति । स्नेहः सन्तापहेतुरिति कपोताद् ग्राह्यमित्याह--स्नेहादिति ॥

व्याधेन लुब्धकेन अस्तेषु निगृहीतेषु पुत्रेषु प्रणयेन मृतो यः

कपोतः स इवाचरतीति तथा । कश्चिद् वनेचरो नीडान्तिके सञ्चरतः

पक्षिणो जालमातत्य प्रतिपालयामास । तत्र प्रथममजानन्तः कपोतशिशवो जालेना-

वृताः । तान् दृष्ट्वा कपोती च दुःखेनापतत् । कपोतश्च पुत्रभार्याविलपनविचे-

ष्टनादिदर्शन जनितदुःखप्रणयकरुणान्धधीः स्वयमपि विलपन्नपायमगमत् । एवं

मा भूवमिति भावः । अजगरादुपदेष्टव्यमाह--प्राप्तमिति । शयुः अजगरः

तद्वत् प्राप्तं प्राश्नन् यथालब्धेन शरीरनिर्वाहमात्रं कुर्वन् क्षुधं सहेय साँसोढुं शक्तो
 

 
[^
]. 'रदेशस्थि' क. ग. पाठ:. ठः
[^
]. कोऽपि मा' ग. पाठः
[^
]. 'पि वि' क. ग. पाठः,

[^४]
'र्ववाक्यशेषः' क. ग. पाठ:. ठः
[^
]. 'यं' क. पाठः.
 

 
[^
*] नशेर्लुङि पुषादित्वादङ् । 'नशिमन्योरलिठ्येत्वमिति भाष्यवार्तिकादत एत्वम् ।

छन्दोग्रहणं तु वाक्यभेदेनामिपचोरेव सम्बध्यते, 'अनेशद् मेनकाम्' इत्यादिलक्ष्यानुरोधादिति

वृत्त्यनुसारेणेदम् ।