This page has not been fully proofread.

दशकम् – ९३]
 
पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् ।
 
३२९
 
त्वत्कारुण्य इति । क इव नहि गुरुः, न केवलमात्मैव, पृथिव्यादिप-
दार्था अपि गुरव एवेति भावः । किमेभ्यः शिक्षणीयं, तदाह – लोकवृत्त इति ।
लोकाः स्थिरचरादयः तेषां वृत्तं क्षमानिस्सङ्गत्वालेपकत्वादिस्वभावः । तत्रैते
गुरव इत्यर्थः । हे विभूमन् ! विष्णो ! भूमिः सर्वैः खलैराक्रान्तापि न चलति हि ।
ततः भूमेः सत्क्षमां स्वमार्गादचलनरूपां शिक्षयेयं कर्तव्यतयावगच्छेयम् । तत्तद्विष-
यैर्गुणवद्भिर्दोषवद्भिश्च परिचये सम्पर्के सत्यप्यप्रसक्तिम् असङ्गत्वं समीराद् गृह्णी-
यां शिक्षयेयम् । आत्मनः शरीरपरिच्छिन्नतया प्रतीयमानस्य व्याप्तत्वं सर्वशरी-
रेष्वन्तर्बहिश्च व्याप्तत्वम् । मे गगनगुरुवशादिति । गगनं हि घटादिपरिच्छिन्नतया
प्रतीयमानमपि बहिरन्तश्च व्याप्तम् । किञ्च, निर्लेपता शरीरस्थत्वेऽपि तत्स्पर्शर-
हितो निर्लेपः, तस्य भावो निर्लेपता । सा च गगनगुरुवशादेव मे भातु । यथा
गगनं मेघादिभिर्न स्पृश्यते तथेति ॥ ३ ॥
 
-
 
जलानलशशिरविभ्यः शिक्षणीयमाह -
 
स्वच्छः स्यां पावनोऽहं मधुर उदकवद् वह्निवन्मा स्म गृह्णां
सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् ।
पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां
तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ ४ ॥
 
स्वच्छ इति । अहमुदकवत् स्वच्छो निर्मल: पावनः दर्शनमात्रेण
पापशोधकः मधुरो मधुरालापी च स्याम् । सर्वान्नीनः सर्वभक्षोऽपि वह्निवद्
दोषं' मा स्म गृह्णां पापं नादद्याम् । अग्नेर्यायान्तरमाह - तरुण्विति । तरुषु काष्ठेषु
तमग्निमिव यथा काष्ठेषु प्रविष्टोऽग्निः काष्ठसमानरूपो ह्रस्वदीर्घस्थूलसूक्ष्मादिरूपोऽव-
गम्यते, तथा माम् आत्मानमपि सर्वभूतेषु सुरनरतिर्यगादिशरीरेषु तदुपाधिवशात्
तत्तत्समानरूपोऽवगम्यत इति अवेयाम् अवगच्छेयम् । शशिनः शिक्षणीयमाह -
 
१. 'षं पा' ख. पाठः, २. 'ममात्मापि स' क. पाठ:
 
§ आदद्यामित्यस्य स्थाने 'आददीय' इति साधु ।