This page has been fully proofread once and needs a second look.

दशकम् – ९३]
 
पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् ।
 
३२९
 
त्वत्कारुण्य इति । क इव नहि गुरुः, न केवलमात्मैव, पृथिव्यादिप-

दार्था अपि गुरव एवेति भावः । किमेभ्यः शिक्षणीयं, तदाह--लोकवृत्त इति ।

लोकाः स्थिरचरादयः तेषां वृत्तं क्षमानिस्सङ्गत्वालेपकत्वादिस्वभावः । तत्रैते

गुरव इत्यर्थः । हे विभूमन् ! विष्णो ! भूमिः सर्वैः खलैराक्रान्तापि न चलति हि ।

ततः भूमेः सत्क्षमां स्वमार्गादचलनरूपां शिक्षयेयं कर्तव्यतयावगच्छेयम् । तत्तद्विष-

यैर्गुणवद्भिर्दोषवद्भिश्च परिचये सम्पर्के सत्यप्यप्रसक्तिम् असङ्गत्वं समीराद् गृह्णी-

यां शिक्षयेयम् । आत्मनः शरीरपरिच्छिन्नतया प्रतीयमानस्य व्याप्तत्वं सर्वशरी-

रेष्वन्तर्बहिश्च व्याप्तत्वम् । मे गगनगुरुवशादिति । गगनं हि घटादिपरिच्छिन्नतया

प्रतीयमानमपि बहिरन्तश्च व्याप्तम् । किञ्च, निर्लेपता शरीरस्थत्वेऽपि तत्स्पर्शर-

हितो निर्लेपः, तस्य भावो निर्लेपता । सा च गगनगुरुवशादेव मे भातु । यथा

गगनं मेघादिभिर्न स्पृश्यते तथेति ॥ ३ ॥
 
-
 

 
जलानलशशिरविभ्यः शिक्षणीयमाह -
 
--
 
स्वच्छः स्यां पावनोऽहं मधुर उदकवद् वह्निवन्मा स्म गृह्णां

सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् ।

पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां

तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ ४ ॥
 

 
स्वच्छ इति । अहमुदकवत् स्वच्छो निर्मल: पावनः दर्शनमात्रेण

पापशोधकः मधुरो मधुरालापी च स्याम् । सर्वान्नीनः सर्वभक्षोऽपि वह्निवद्

दोषं'[^१] मा स्म गृह्णां पापं नादद्याम्[^§] । अग्नेर्याग्राह्यान्तरमाह - --तरुण्ष्विति । तरुषु काष्ठेषु

तमग्निमिव यथा काष्ठेषु प्रविष्टोऽग्निः काष्ठसमानरूपो ह्रस्वदीर्घस्थूलसूक्ष्मादिरूपोऽव-

गम्यते, तथा मा[^२]म् आत्मानमपि सर्वभूतेषु सुरनरतिर्यगादिशरीरेषु तदुपाधिवशात्

तत्तत्समानरूपोऽवगम्यत इति अवेयाम् अवगच्छेयम् । शशिनः शिक्षणीयमाह -
 
--
 
[^
]. 'षं पा' ख. पाठः,
[^
]. 'ममात्मापि स' क. पाठ:
 
ठः
[^
§] आदद्यामित्यस्य स्थाने 'आददीय' इति साधु ।