2023-02-16 08:52:45 by ambuda-bot
This page has not been fully proofread.
३२८
नारायणीये
क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवः सन्त्यनन्ता-
स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
तत्राप्यात्मात्मनः स्यात् सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-
स्तापोच्छिन्तेरुपायं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः ॥ २ ॥
[स्कन्धः - ११
-
-
क्षुत्तृष्णेति । क्षुत्तृष्णयोः अशनौयापिपासयोः लोपः तृणकबलनजलपानादि
एतावन्मात्रे सततं कृतधियो निश्चितबुद्धयः जन्तवः पश्वादयः अनन्ताः बहवः
सन्ति । तेभ्यः विज्ञानवत्त्वाद् आत्मदर्शनसामर्थ्येन इह भूमौ पुरुषो मनुष्यः
वरः श्रेष्ठः । तज्जनिर्मनुष्यजन्म । तंत्रापि मनुष्येष्वपि आत्मैवात्मनः सुहृद्
उपकारी रिपुः अपकारी च । विवेकमाह - यस्त्वयि न्यस्तचेताः अत एव
तापोच्छित्तेः मोक्षस्य उपायं साधनं स्मरति जानाति, तथाविधश्चेदात्मा स्वयमेव
आत्मनः स्वस्य सुहृद् बन्धुः स्यात् । ततोऽन्यः नैवंविधः स आत्मवैरी
आत्महा ॥ २ ॥
नन्वात्मैवात्मनो गुरुरित्युक्तं तदसङ्गतमित्याशङ्कय यद् यस्याज्ञाननाशहेतुः
स तस्य गुरुरितीह विवक्षितत्वात् स्थिरचराणामपि तद्धेतुत्वाद् गुरुत्वमूरीकरणीय,
किं पुनरात्मन इति परिहरन् पृथिव्यादिभ्यो गुरुभ्य; शिक्षणीयानि क्षमादीन्यात्मनः
प्रार्थयते-
त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन् !
सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् ।
गृह्णीयामीश! तत्तद्विषयपरिचयेऽप्यत्रसक्तिं समीराद्
व्याप्तत्वं चात्मनो मे गगनगुरुवशाद् भातु निर्लेपता च ॥ ३ ॥
१. 'नेच्छापि' ग. पाठ:. २. 'शेषमा' क. पाठ:. ३. विभूमन्निति व्याख्यासम्मतः पाठः