This page has been fully proofread once and needs a second look.

३२८
 
नारायणीये
 
क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवः सन्त्यनन्ता-

स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव ।

तत्राप्यात्मात्मनः स्यात् सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-

स्तापोच्छिन्तेरुपायं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः ॥ २ ॥
 
[स्कन्धः - ११
 
-
 
-
 

 
क्षुत्तृष्णेति । क्षुत्तृष्णयोः अशनौना[^१]यापिपासयोः लोपः तृणकबलनजलपानादि

एतावन्मात्रे सततं कृतधियो निश्चितबुद्धयः जन्तवः पश्वादयः अनन्ताः बहवः

सन्ति । तेभ्यः विज्ञानवत्त्वाद् आत्मदर्शनसामर्थ्येन इह भूमौ पुरुषो मनुष्यः

वरः श्रेष्ठः । तज्जनिर्मनुष्यजन्म । तंत्रापि मनुष्येष्वपि आत्मैवात्मनः सुहृद्

उपकारी रिपुः अपकारी च । विवे[^२]कमाह - -यस्त्वयि न्यस्तचेताः अत एव

तापोच्छित्तेः मोक्षस्य उपायं साधनं स्मरति जानाति, तथाविधश्चेदात्मा स्वयमेव

आत्मनः स्वस्य सुहृद् बन्धुः स्यात् । ततोऽन्यः नैवंविधः स आत्मवैरी
 

आत्महा ॥ २ ॥
 

 
नन्वात्मैवात्मनो गुरुरित्युक्तं तदसङ्गतमित्याशङ्क्य यद् यस्याज्ञाननाशहेतुः

स तस्य गुरुरितीह विवक्षितत्वात् स्थिरचराणामपि तद्धेतुत्वाद् गुरुत्वमूरीकरणीयं,

किं पुनरात्मन इति परिहरन् पृथिव्यादिभ्यो गुरुभ्य;यः शिक्षणीयानि क्षमादीन्यात्मनः

प्रार्थयते-
-
 
त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि[^३] भूमन् !

सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् ।

गृह्णीयामीश! तत्तद्विषयपरिचयेऽप्यत्प्रसक्तिं समीराद्

व्याप्तत्वं चात्मनो मे गगनगुरुवशाद् भातु निर्लेपता च ॥ ३ ॥
 

 
[^
]. 'नेच्छापि' ग. पाठ:. ठः
[^
]. 'शेषमा' क. पाठ:. ठः
[^
]. विभूमन्निति व्याख्यासम्मतः पाठः