This page has not been fully proofread.

दशकम् - ९३]
 
पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् ।
 
३२७
 
एवं विंशत्या श्लोकैः कर्ममिश्रां भक्ति निरूप्य अनन्तरं ज्ञानमिश्रां निरू-
पयिष्यन् प्रथमं तदधिकारप्राप्तिमाह -
 
बन्धुस्नेहं विजयां तव हि करुणया त्वय्युपावेशितात्मा
 
सर्वे त्यक्त्वा चरेयं सकलमपि जगद् वीक्ष्य मायाविलासम् ।
नानात्वाद् भ्रान्तिजन्यात् सति खलु गुणदोषाववोधे विधिर्वा
व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ १ ॥
 
बन्धुस्नेहमिति । बन्धुषु पुत्र मित्रकलन्त्रादिषु स्नेहं यतस्त्वन्मायाकृतम्
अतस्तव कृपया विजयां त्यजेयम् । हिशब्दस्तद्धाने साधनान्तरराहित्यं दर्शयति ।
ततस्त्वत्कृपयैव त्वयि उपावेशितात्मा समाहितचित्तः सन् जगद् मायाविलासं
त्वन्मायाकल्पितं वीक्ष्य अवगम्य त्वदुपासनातोऽन्यत् सर्वं कर्म विधिनिषेधभेदमपि
त्यक्त्वा चरेयमिति गृहाय़नपेक्ष द्योत्यते । ननु विहितस्य कर्मणोऽननुष्ठानं न
युक्तं, पापोत्पत्तौ प्रायश्चित्तमपि कार्यमेवेत्याशङ्कच कर्मणाम
विद्वदधिकारित्वेन बिंदु-
षस्तदकरणे न दोष इत्याह – नानात्वादिति । मनुष्योऽहमिति देहे अहमभिमानो
भ्रान्तिः । तज्जन्यं नानात्वं वर्णाश्रमादिभेदः । तत्सत्यताङ्गीकार एव गुणदोषौ
नित्यनैमित्तिकं कर्म सत्त्वशोधकत्वाद् गुणः, हिंसादि दोषः, पापक्षयसाधनत्वात्
कृच्छ्रचान्द्रायणादि गुणः इत्यादिगुणदोषावबोधे सत्येव विधिर्व्यासेधो निषेधौ वा
भवेत् । त्वयि निहितमतेः ब्रह सर्वमिति निश्चितबुद्धेः अत एव वीतवैषम्यबुद्धेः
त्यक्तनानात्वभ्रमस्य मर्मं तु कथं तौ विधिनिषैधौ स्याताम् । अतो विधिनिषेधा-
नधिकारात् सर्वं त्यक्त्वा चरेयमित्यर्थः । एवञ्च विधिनिषेधातीतो ज्ञानमि-
श्रायां भक्तावधिकारीत्यपि दर्शितम् । तदुक्तं मुक्ताफले "ज्ञानमिश्रका भिक्षूणाम् "
इति ॥ १ ॥
 
एतत् सर्वे पुरुषशरीरेणैव साध्यमिति वक्तुं तिर्यगादिदेहेभ्यः पुरुषतनुरुत्क-
ष्टेति पुरुषत्वं स्तौति--
१. 'तू त्व' ख. पाठः,
 
२. 'क्षता द्यो' क. ग. पाठ: ३. 'मक' क. पाठः