This page has been fully proofread once and needs a second look.

३२६
 
नारायणीये
 
ननु त्रिभिः ऋणैर्जातस्य तदनपाकरणे कथं मुक्तिः स्यादित्यत आह -
--
 
देवर्षीणां पितॄणामपि न पुनर्ऋणी किङ्करो वा स भूमन् !

योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।

तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं

तन्मे पोपा[^१]पोत्थतापांपान् पवनपुरपते ! रुन्धि भक्तितिं मणीयाः ॥ १० ॥
 
[स्कन्धः - ११
 
-
 
-
 
-
 

 
देवर्षीणामिति । देवानाम् ऋषीणां पितृतॄणामपि, यथा अभक्त ऋणी अध-

मर्णो भवति । अत एव तदपाकरणाय यज्ञाध्ययनपुत्रोत्पादनादि तेन कर्तव्यमिति

तेषां किङ्करश्च भवति । तथाच स्मृतिः "हीनजातितिं परिक्षीणमृणार्थं कर्म

कारयेत् "(याज्ञ्. अ. २. श्लो.४३) इति । स भुक्तः पुनर्ऋणी किङ्करो वा न भवति ।

तत्र हेतुमाह--योऽसाविति । यः पुरुषः सर्वात्मना सर्वभावेन त्वां शरणमुप-

गतः सर्वकृत्यानि विहितसकलकर्माणि हित्वा । ननु[^२] तर्हि सर्वात्मना निषिद्ध-

कर्मणोऽपरिहार्यत्वात् प्रायश्चित्तादिकर्म कर्तव्यं, नेत्याह--तस्येति । विकर्म

निषिद्धकर्मणः फलं तस्य त्वां शरणं गतस्य तावन्न संभवति । यदि प्रमादा-

दिना भवेत्, तर्हि तदपीत्यपिशब्दार्थ: । अखिलं निरवशेषम् अपनुदसि नाशयसि
[^३] ।
ननु नास्य पापक्षयार्थीथं भगवदुपासनम्, अत आह--चित्तस्थितस्त्वमिति । न

हि वस्तुशक्तिरर्थितामपेक्षते कार्योत्पादनाय, यथा ह्यौषधं फलार्थिनामफलार्थिना-

मप्यविशेषेणारोग्यादि जनयति तथेति भावः । तत् तस्माद् यस्माच्चित्तस्थः पापम-

पनुदसि, पापोत्थान् पापकर्मजनितान् तापान् दुरितानि रुन्धि वारय । भक्ति
तिं
प्रणीयाः अनपायिनीं कृषीष्ठाः ॥ १० ॥
 

 
इति कर्ममिश्रभक्तिस्वरूपवर्णनं द्विनवतितमं दशकम् ।
 

 
[^
]. 'वातोत्थ' घ. पाठ: ठः
[^
]. 'नु स' ख. पाठः
[^
]. 'सि । ना' ग. पाठः,