This page has not been fully proofread.

दशकम् - ९२]
 
कर्ममिश्रभक्तिस्वरूपवर्णनम् ।
 
३२५
 
भक्ता भवन्तीति भावः । एतदन्तर्भवं द्रमिलविषयान्तःपातिनम् अपिच त्वाय किञ्चि
दञ्चद्रसम् ईषदारव्धभक्ति मां न भ्रमय ॥७॥
 
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ् महीक्षित् परीक्षि-
द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् ।
त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु-
यत् प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ ८॥
 

 
दृष्ट्वेति। प्राक् पुरा परीक्षिन्नाम महीक्षिद् राजा धर्मगुहं वृषरूपिणं धर्म
दण्डेन प्रहरन्तं तं कलिं दृष्ट्वा हन्तुं व्याकृष्टखङ्गोऽपि गुणांशादूँ न विनिहत्तवान् ।
ननु गुणांशे सत्यपि धर्मगुहं किं न निहतवानित्यत्राह -- सारवेदीति । अल्पत्वे पि
गुणस्य सारांशत्वं जानन्नित्यर्थः । तदेवाह ——त्वत्सेवादीति । अर्चननामकीर्तनादि
आशु इह जन्मन्येव सिध्येद् भक्तिद्वारा मुक्तिमुत्पादयेत् । असद् दुष्कर्म तु
इह कलौ न तथा नाशु सिध्येत् । किञ्च, त्वत्परे त्वद्भक्तविषये चैष कलिर्भीरुः
ईश्वरबिमुखेष्वेव कलिः प्रभवतीति भावः । किञ्च, प्रागेव त्वत्सेवाद्यारम्भात् पूर्वमेव
रोगादिभिरपहरते त्वद्भजनान्निवर्तयतीति तु यत् हा मम तु तदेवापतितम् । तत्र
अपहरणे एनं कलिं शिक्षय । यथा त्वत्सेवायामुचुक्तात् कलिर्दूरतोऽपसरति,
तथैनं कुर्विति भावः ॥८॥
 
गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्
सालग्रामाभिपूजा परपुरुष ! तथैकादशी नामवर्णाः ।
एैतान्यष्टाप्ययनान्याय कालसमये त्वत्प्रसादमवृद्ध्या
क्षिप्रं मुक्तिमदानीत्यभिदधुर्ऋषयस्तेषु मां सज्जयेथाः ॥ ९॥
 
गङ्गेति । त्वत्प्रसादप्रवृद्ध्या तद्द्वारेण मुक्तिप्रदान्येतानीत्यत्र स्मृतिप्रमाण-
त्वमाह — अभिदधुर्ऋषय इति ॥ ९ ॥
 
१. 'म् अपि त्व' ख. पाठ:. ९. 'तम् उक्तगुणं क' क. ग. पाठः,
भूताद् न' क. ग. पाठः. ४. 'ति य' क. पाठः.
ताभ्यंय' क. पाठः.
 
५. 'य ॥' क. ख. पाठः ६. 'अष्टावे.