This page has been fully proofread once and needs a second look.

दशकम् - ९२]
 
कर्ममिश्रभक्तिस्वरूपवर्णनम् ।
 
३२५
 
भक्ता भवन्तीति भावः । एतदन्तर्भवं द्रमिलविषयान्तःपातिनम्[^१] अपिच त्वाय किञ्चि
-
दञ्चद्रसम् ईषदारव्ब्धभक्तितिं मां न भ्रमय ॥७॥
 

 
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ् महीक्षित् परीक्षि-

द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् ।

त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु-
यत्

र्यत्तु
प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ ८॥
 

 

 
दृष्ट्वेति। प्राक् पुरा परीक्षिन्नाम महीक्षिद् राजा धर्मगुद्रुहं वृषरूपिणं धर्
मं
दण्डेन प्रहरन्तं तं कलिं दृष्ट्वा हन्तुं व्याकृष्टखङ्गोऽपि गुणांशादूँद्[^३] न विनिहत्तवान् ।
तवान् ।
ननु गुणांशे सत्यपि धर्मगुद्रुहं किं न निहतवानित्यत्राह -- सारवेदीति । अल्पत्वे पि

गुणस्य सारांशत्वं जानन्नित्यर्थः । तदेवाह ——--त्वत्सेवादीति । अर्चननामकीर्तनादि

आशु इह जन्मन्येव सिध्येद् भक्तिद्वारा मुक्तिमुत्पादयेत् । असद् दुष्कर्म तु

इह कलौ न तथा नाशु सिध्येत् । किञ्च, त्वत्परे त्वद्भक्तविषये चैष कलिर्भीरुः

ईश्वरबिविमुखेष्वेव कलिः प्रभवतीति भावः । किञ्च, प्रागेव त्वत्सेवाद्यारम्भात् पूर्वमेव

रोगादिभिरपहरते त्वद्भजनान्निवर्तयतीति[^४] तु यत् हा मम तु तदेवापतितम् । तत्र

अपहरणे एनं कलिं शिक्षय[^५] । यथा त्वत्सेवायामुचुद्युक्तात् कलिर्दूरतोऽपसरति,

तथैनं कुर्विति भावः ॥८॥
 

 
गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्

सालग्रामाभिपूजा परपुरुष ! तथैकादशी नामवर्णाः ।
एै

ए[^३]
तान्यष्टाप्ययत्नान्याय कालययि कलिसमये त्वत्प्रसादप्रवृद्ध्या

क्षिप्रं मुक्तिप्रदानीत्यभिदधुर्ऋषयस्तेषु मां सज्जयेथाः ॥ ९॥
 

 
गङ्गेति । त्वत्प्रसादप्रवृद्ध्या तद्द्वारेण मुक्तिप्रदान्येतानीत्यत्र स्मृतिप्रमाण-

त्वमाह--अभिदधुर्ऋषय इति ॥ ९ ॥
 

 
[^
]. 'म् अपि त्व' ख. पाठ:. ९ठः
[^२]
. 'तम् उक्तगुणं क' क. ग. पाठः,

[^३] 'द्धेतु
भूताद् न' क. ग. पाठः.
[^
]. 'ति य' क. पाठः.
ताभ्यंय' क

[^५]. 'य ॥' क. ख
. पाठः.
 
५. 'य ॥' क. ख. पाठः

[^
]. 'अष्टावे.
 
तान्यय' क. पाठः