This page has not been fully proofread.

भगवद्भक्त्युत्पत्त्यादिवर्णनम् ।
 
एवं त्रयोदशभिः श्लोकैरध्यायत्रयोक्तमुपास्यं भगवद्रूपं वर्णितम् । सम्प्रति
सेवासाधनस्य भगवद्भक्तरुत्पत्तिं दर्शयति-
एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यज्ञकं
 
व्यासिञ्चत्यपि शीतवाप्पविसरैरानन्दमूर्च्छद्भवैः ॥ ६ ॥
 
--
 
दशकम् -२]
 
एवमिति । एवम्भूता पूर्वोक्ता या मनोज्ञता सौभाग्य, सैव नवसुधानिप्यन्दः
प्रतिनबमधुद्रवः, तस्य सन्दोहनं वर्षकं परचिद्रसायनमयं परब्रह्ममयं चेतोहरं स्मर-
तां पुनःपुनः स्मारकं त्वद्रूपं शृण्वतामिति । अयमभिप्रायः
 
यदृच्छया त्वत्क-
-
 
थायां जातश्रद्धस्य पुंसः कथाप्रसङ्गे सति श्रोत्रद्वारा त्वद्रूपं हृदयदेशमागत्यास्य सक
लसन्तापं शमयतीति । तत्प्रकारमाह • सद्य इति । सद्यो झटिति सतिं प्रेरयते
आकर्षति; विषयेभ्यो मतिं बलादाकृप्य स्वस्मिन् सन्निधापयति । मदयते आन
न्दविवशतामापादयति । किञ्च, अङ्गकम् अंङ्ग रोमाञ्चयति । अपिच, आनन्दमू-
छेद्भवैः त्वद्रूपानुभवानन्दस्य मूर्छा वृद्धिः, तत्सकाशादुद्भवो येषां तैः शीतैर्वाप्पवि-
सरैः अश्रुप्रसँरैर्व्यासिञ्चति । अनेन चेश्वरे प्रेमप्रकर्षणाहैतुकेन सकलेन्द्रियाणां वृत्तिः
प्रेमलक्षणा भक्तिः, सा च त्वत्कथा श्रवणनामकीर्तनादिलक्षणया साधनभक्त्योत्पद्यत
इत्यप्युक्तं भवति ॥ ६॥
 
अनन्तरं भक्तेरुत्कर्षं वर्णयति चतुर्भि:-
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयात्
कर्मज्ञानमयाद् भृशोत्तमतरो योगीश्वरैगीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु मेमप्रकर्षात्मिका
भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ! ॥ ७ ॥
 
एवमिति । स प्रह्लादादिभिरप्यङ्गीकृतः भक्तिरित्यभिहितो योगो मोक्षोपायः
एवम्भूततया उक्तप्रकारतयेति । यः कथाश्रवणादिनायत्नेनोत्पद्यते, उत्पन्ने सति च(?)
हृदयमानन्दयति, तादृशतयेत्यर्थः । कर्मज्ञानमयात् कर्ममयाद् ज्ञानमयाच्च योग-
१. 'ति । ए' क. पाठः, 'ति एवम्भूततयेति च' ख. पाठः.