This page has not been fully proofread.

भगवद्भक्त्युत्पत्त्यादिवर्णनम् ।
 
एवं त्रयोदशभिः श्लोकैरध्यायत्रयोक्तमुपास्यं भगवद्रूपं वर्णितम् । सम्प्रति

सेवासाधनस्य भगवद्भक्तेरुत्पत्तिं दर्शयति-
-
 
एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं

त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।

सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यज्ञङ्गकं
 

व्यासिञ्चत्यपि शीतवाप्ष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ ६ ॥
 
--
 
दशकम् -२]
 

 
एवमिति । एवम्भूता पूर्वोक्ता या मनोज्ञता सौभाग्यं, सैव नवसुधानिप्ष्यन्दः

प्रतिनबमधुद्रवः, तस्य सन्दोहनं वर्षकं परचिद्रसायनमयं परब्रह्ममयं चेतोहरं स्मर-

तां पुनःपुनः स्मारकं त्वद्रूपं शृण्वतामिति । अयमभिप्रायः
 
--यदृच्छया त्वत्क-
-
 

थायां जातश्रद्धस्य पुंसः कथाप्रसङ्गे सति श्रोत्रद्वारा त्वद्रूपं हृदयदेशमागत्यास्य सक
-
लसन्तापं शमयतीति । तत्प्रकारमाह--सद्य इति । सद्यो झटिति तिं प्रेरयते

आकर्षति; विषयेभ्यो मतिं बलादाकृप्ष्य स्वस्मिन् सन्निधापयति । मदयते आन
-
न्दविवशतामापादयति । किञ्च, अङ्गकम् अंङ्गं रोमाञ्चयति । अपिच, आनन्दमू-
छे

र्छो
द्भवैः त्वद्रूपानुभवानन्दस्य मूर्छा वृद्धिः, तत्सकाशादुद्भवो येषां तैः शीतैर्वाप्ष्पवि-

सरैः अश्रुप्रसँरैर्व्यासिञ्चति । अनेन चेश्वरे प्रेमप्रकर्षेणाहैतुकेन सकलेन्द्रियाणां वृत्तिः

प्रेमलक्षणा भक्तिः, सा च त्वत्कथा श्रवणनामकीर्तनादिलक्षणया साधनभक्त्योत्पद्यत

इत्यप्युक्तं भवति ॥ ६॥
 

 
अनन्तरं भक्तेरुत्कर्षं वर्णयति चतुर्भि:-
-
 
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयात्

कर्मज्ञानमयाद् भृशोत्तमतरो योगीश्वरैर्गीयते ।

सौन्दर्यैकरसात्मके त्वयि खलु मेप्रेमप्रकर्षात्मिका

भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ! ॥ ७ ॥
 

 
एवमिति । स प्रह्लादादिभिरप्यङ्गीकृतः भक्तिरित्यभिहितो योगो मोक्षोपायः

एवम्भूततया उक्तप्रकारतयेति । यः कथाश्रवणादिनायत्नेनोत्पद्यते, उत्पन्ने सति च(?)

हृदयमानन्दयति, तादृशतयेत्यर्थः । कर्मज्ञानमयात् कर्ममयाद् ज्ञानमयाच्च योग-

 
[^
]. 'ति । ए' क. पाठः, 'ति एवम्भूततयेति च' ख. पाठः.