2023-02-16 08:52:45 by ambuda-bot
This page has not been fully proofread.
३२४
नारायणीये
[स्कन्धः - ११
अरिगदे यस्य तम् । एतच्चान्यायुधानामप्युपलक्षणम् । श्यामलाङ्गम् अतसीकु-
सुमच्छायम्। इह कलिसमये नीलं कृष्णवर्णम् । सङ्कीर्तनं नामोच्चारणम् आद्यं
प्रधानं येषां तैः भजन्ते सेवन्ते ॥ ५ ॥
तत्र कला सेवासौकर्यमाह पञ्चभिः -
-
सोऽयं कालेयकालो जयति मुररिपो ! यत्र सङ्कीर्तनायै-
निर्यत्नैरेच मार्गेरखिलद ! नचिरात् त्वत्प्रसादं भजन्ते ।
जातात्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते
दैवात् तत्रैव जातान् विषयविपरसैम विभो! वञ्चयास्मान् ॥ ६॥
सोऽयमिति । स पूर्वोक्तः अयं वर्तमानः कलेरयं कालेयः कालो जयति
इतरयुगेभ्य उत्कृष्टो भवति । यत्र कलियुगे निर्यलैः यत्नविरहितैः सङ्कीर्तनाथै-
मार्गेरुपायैरेव नचिरात् शीघ्रं त्वत्प्रसादं भजन्ते लभन्ते । नभु कृतादिषु जाता
अप्येवंवादिनः नेत्याह — जाता इति । हिशब्दसहितः किलशब्दोऽस्यार्थस्य
पुराणादिप्रसिद्धिं द्योतयति । दैवात् सुक्कुलपरिपाकेन तत्र कलावेव जाताचस्मान्
विषयविषरसैः विषया एव विषरसा विषद्रवाः, यस्मात् तदुपयोगे मोहं गच्छेयुः ।
तैर्मा वञ्चय ॥ ६ ॥
-
भक्तास्तावत् कलौ स्युमिल भुवि ततो भूरिशस्तत्र चोचैः
कावेरीं ताम्रपर्णीमनु किल कृतमालां च पुण्यां प्रतीचीम् ।
हा मामप्येतदन्तर्भवमपि च विभो ! किञ्चिदञ्चद्रसं त्व-
य्याशापाशैर्निबध्य भ्रमय न मगवन् ! पूरय त्वान्नेषेवाम् ॥ ७ ॥
भक्ता इति। तावत् प्रथममेव कलौ भक्ताः भूरिशः तत्र तत्र बहवः स्युः,
ततस्तत्र कलावपि द्रमिलभुवि भूरिशः । तत्र च द्रमिलविषयेऽपि पुण्यां कावेर्यादिन-
दीमनु तत्वीरेषु उच्चैः ततोऽप्यधिकाँः स्युः । कावेर्यादीनां जलं ये पिबन्ति, तेऽतीव
१. 'मकीर्तनम्' क. पाठः. २. 'स्युः । तत्र' ख. ग. पाठ:.
३. 'कं स्युः' ख. पाठः.