This page has not been fully proofread.

दशकम् - ९२]
 
कर्ममिश्रभक्तिस्वरूपवर्णनम् ।
 
३२३
 

 
भिलपति । तच्च निजं स्वेनानुष्ठितं दुश्चरित्रं मोषणादि गृहितुं साधुरयं तादृशं न
करोतीत्यस्मान् प्रतिबोध्यापोतुम् । अस्य निर्लज्जस्य हरिभक्तेरन्यत् सारं नास्ती-
त्यौद्यस्मत्सन्निधौ लज्जां निर्जित्य जल्पतोऽस्य वाचा हेतुना मे बहुतराणि कथनी-
यानि बन्धुभिर्निरूपणीयानि कार्यजातानि विघ्नितानि । ननु तस्मिन् कर्माण भ्राता
किं न नियुज्यत इति चेत् तत्राह — भ्राता मे बन्ध्यशील इति । वन्ध्यं निष्फलं
शीलं यस्य स तथा । तेन ममोपकारो नास्तीति भावः । सदा विष्णुं भजति
किल पुष्पाञ्जलिनमस्कारनामकीर्तनादि करोति । तत् किल विष्णुभजनम् । तेन
तस्य मम वा किं स्यात् । इत्थं ते अशान्ताः बुधान् भक्तान् निन्दन्ति । त्वयि
ईश्वरे निहिता स्थिरीकृता रतिः प्रेमलक्षणा भक्तिर्येस्तान् उच्चैर्हसन्ति त्वद्दास्या-
दिप्रार्थनामन्यैः सह परिहसन्ति । एतेषां कदाचिदपि संसारनिवृत्यसंभवाद् मां
तादृशं मा कृथाः ॥ ४ ॥
 
युगानुरूपं सेवाप्रकारमा
 
श्वेतच्छायं कृते त्वां मुनिवरवपुषं मीणयन्ते तपोभि-
त्रेतायां वाद्यतमरुणतनुं यज्ञरूपं यजन्ते ।
सेवन्ते तन्त्रमार्गेर्विलसदरिगढ़ द्वापरे श्यामला
नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ ५॥
 
श्वेतच्छायमिति । श्वेतच्छायं शुक्लवर्ण कृते कृतयुगे मुनिवरवपुषम् ।
अत्र मुनिशब्देन ब्रह्मचारी विवक्ष्यते, जटावल्कलकृष्णाजिनोपवीताक्षमालादण्डक-
मण्डल्वादीन् बिभ्रतमित्यर्थः। त्वां चतुर्बाहुं तपोभिः ध्यानमार्गैः प्रीणयन्ते प्रसादय-
न्ति । मानुषा इति सर्वत्रानुषज्यते । त्रेतायां त्रेतायुगे स्रुनुवाद्यङ्कितं स्रुग् जुहूः स्रुवश्च
तदादिभिः कराग्रस्थितैः अङ्कितम् उपलक्षितं यजन्ते । वैदिकैः कर्मभिरिति शेषः ।
द्वापरे तन्त्रमार्गेः पूजाप्रकारैः सेवन्ते पूजयन्ति । विलसदरिगदं विलसन्त्यौ
 
ग. पाठ..
पाठः.
 
१.
 
'त्यस्म' क. पाठ:. २. 'णि तर्हि भ्रा' क. ग. पाठ:. ३. 'वः । किञ्च स' क.
४. 'मसङ्कीर्त' क. पाठः ५. 'नायाम' क. ग. पाठ: ६. 'त्या' क. ग.
७. 'गैं: प्र' ख. पाठः. ८. 'तम् अरुणतनुं य' क. ग. पाठ:.