This page has not been fully proofread.

३२२
 
नारायणीये
 
[स्कन्धः - १९
 
सम्प्रति भक्तिदार्थायाभक्तानामनिष्टां
 
गतिं वर्णयति 'स्त्रीशूद्रा' इति द्वाभ्यां
 
स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता
 
आसतां ते दया-
स्त्वत्पादासनयातान् द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।
वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
 
दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशं मा कृथा माम् ॥३॥
 
स्त्रीशूद्रा इति । आदिशब्देन नामादि गृह्यते । श्रवणं कीर्तनादेरप्युपल-
क्षणम् । त्वत्कथाश्रवणत्वन्नामकीर्तनत्वत्स्मरणादिविरहिता इत्यर्थः । एतच्चाज्ञानाद्,
नानधिकारात् । 'भक्तिश्चेच्छूद्रयोषितामिति वचनात् । अत एव ते दयार्हाः सद्धि-
र्दयया सुखं बोधनीयाः । ते तावत् तिष्ठन्त्विति भावः । त्वत्पादासन्नयातान् उप-
नयनादिसंस्कारैरर्थावबोधपर्यन्तेनाध्ययनेन च त्वत्पादभजनाधिकारं प्राप्तान् द्वि-
जानां त्रैवर्णिकानां कुले जनुर्जन्म येषां तान् अशान्तान् विषयपरान् हन्त शोचा-
मि । ज्ञानलबदुर्बिदग्धतया बोधयितुमशक्य एते इति मम खेद इति भावः । वृत्त्य-
र्थम् उदरभरणार्थं यजन्तः पशुहिंसां कुर्वन्तः बहुकथितमपि श्रुत्यादिषु सगुणनि-
र्गुणभेदेन प्रतिपादितमपि त्वाम् ईश्वरम् अनाकर्णयन्तः शृण्वन्तोऽप्यश्रद्दधानतया
श्रवणफलमनासादयन्तः। अत्र हेतुमाह -दृप्ता विद्याभिजात्यैः । 'विद्यामदो धन-
मदस्तृतीयोऽभिजनो मद' इत्युक्तमदत्रययुक्ताः किमु न विदधते किं न कुर्वन्ति ।
आभिचारसज्जननिन्दाद्यपि कुर्वन्त्येवेत्यर्थः । मां तादृशम् आत्महनं मा कृथाः ॥ ३ ॥
 
-
 
.
 
सन्निन्दामेव प्रपञ्चयति —
 
पापोऽयं कृष्ण! रामेत्यभिलपति निजं गृहितुं दुश्चरित्रं
 
निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विनितानि ।
भ्राता मे बन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते
निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ ४॥
 
पाप इति । अयं पापः परद्रव्यापहारी। तत् कथमवगम्यते, कृष्ण! रामेव्य-
१. 'एतच तचाज्ञानानाधि' क. पाठ: २ 'क्या हि ते' क. पाठः,