This page has been fully proofread once and needs a second look.

३२२
 
नारायणीये
 
[स्कन्धः - १९
 
सम्प्रति भक्तिदार्थाढ्यायाभक्तानामनिष्टां
 
गतिं वर्णयति 'स्त्रीशूद्रा' इति द्वाभ्यां
 
--
 
स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता
 
आसतां ते दया-
र्हा-
स्त्वत्पादासन्नयातान् द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।

वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
 

दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशं मा कृथा माम् ॥३॥
 

 
स्त्रीशूद्रा इति । आदिशब्देन नामादि गृह्यते । श्रवणं कीर्तनादेरप्युपल-

क्षणम् । त्वत्कथाश्रवणत्वन्नामकीर्तनत्वत्स्मरणादिविरहिता इत्यर्थः । ए[^१]तच्चाज्ञानाद्,

नानधिकारात् । 'भक्तिश्चेच्छूद्रयोषितामि'ति वचनात् । अत एव ते दयार्हाः सद्धि-
भि-
र्दयया सुखं बोधनीयाः । ते तावत् तिष्ठन्त्विति भावः । त्वत्पादासन्नयातान् उप-

नयनादिसंस्कारैरर्थावबोधपर्यन्तेनाध्ययनेन च त्वत्पादभजनाधिकारं प्राप्तान् द्वि-

जानां त्रैवर्णिकानां कुले जनुर्जन्म येषां तान् अशान्तान् विषयपरान् हन्त शोचा-

मि । ज्ञानलदुर्बिविदग्धतया बोधयितुमशक्या[^२] एते इति मम खेद इति भावः । वृत्त्य-

र्थम् उदरभरणार्थं यजन्तः पशुहिंसां कुर्वन्तः बहुकथितमपि श्रुत्यादिषु सगुणनि-

र्गुणभेदेन प्रतिपादितमपि त्वाम् ईश्वरम् अनाकर्णयन्तः शृण्वन्तोऽप्यश्रद्दधानतया

श्रवणफलमनासादयन्तः। अत्र हेतुमाह --दृप्ता विद्याभिजात्यैः । 'विद्यामदो धन-

मदस्तृतीयोऽभिजनो मद' इत्युक्तमदत्रययुक्ताः किमु न विदधते किं न कुर्वन्ति ।

आभिचारसज्जननिन्दाद्यपि कुर्वन्त्येवेत्यर्थः । मां तादृशम् आत्महनं मा कृथाः ॥ ३ ॥
 
-
 
.
 

 
सन्निन्दामेव प्रपञ्चयति
 
--
 
पापोऽयं कृष्ण! रामेत्यभिलपति निजं गृगूहितुं दुश्चरित्रं
 

निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।

भ्राता मे बन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते

निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ ४॥
 

 
पाप इति । अयं पापः परद्रव्यापहारी। तत् कथमवगम्यते, कृष्ण! रामेव्य-
त्य-
 
[^
]. 'एतच्च तच्चाज्ञानान्नाधि' क. पाठ: ठः
[^
] 'क्या हि ते' क. पाठः,