This page has not been fully proofread.

दशकम् - ९२]
 
कममिश्रभक्तिस्वरूपवणनम् ।
 
३२१
 
-
 
ङ्कायाम् एवं सति विकर्मलक्षणेनाधर्मेण पततीत्यभिप्रायेणाह - समनुचरन्निति ।
नैष्कर्म्यं कर्मनिवृत्तिसाध्यं ज्ञानं यानि प्राप्नुयामित्यर्थः । वेदैरिति स्मृत्यादेरप्युप-
लक्षणम् । निषिद्धे अभक्ष्यभक्षप्पादौ कुहचिदपि अल्पदुष्कृतेष्वपि कर्मसु मनःक-
र्मवाचां प्रवृत्तिः मां भूत् । दुर्वर्जे वर्जयितुमशक्यं यद् निषिद्धकर्म, तच्चेदवा-
प्तम् अनुष्ठितं तर्हि तदपि भवति चित्प्रकाशे ब्रह्मणि अर्पये मन्त्रपुरस्सरं समर्पया-
मीत्यर्थः ॥ १ ॥
१॥
 
वैदिकं कर्मयोगमुक्त्वा तान्त्रिकमाह -
 
यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्ति
 
हृद्यां सत्त्वैकरूपां उपदि हुँदि मृदि कापि वा भावयित्वा ।
पुष्पैर्मन्धर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै-
नित्यं वर्षा सपर्या विदधदाय विभो ! त्वत्प्रसादं भजेयम् ॥ २ ॥
 
यस्त्विति । अन्यः वैदिकावन्यस्तान्त्रिकः तव भजनमयः त्वत्पूजारूप:
आशु त्वत्प्रसादजनकः। अभीष्टां श्रीनारायणवासुदेवादिरूपां मूर्ति हृद्याम् अतिम-
नोहरवेषविशिष्टां सत्त्वैकरूपां शुद्धसत्त्वमयीं दृषदि शिलामय्यां मृदि लेप्यायां
हृदि मनोमय्यां कापि कांस्यरजतसुवर्णादिप्रतिमायां वा । यथोक्तं –
 
"शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ "
 
( श्री. भा. स्क. ११. अ. २७. श्लो. १२)
 
इति । भावयित्वा तव मूर्ति सङ्कल्प्य विरचितैः सम्पादितैः शक्तितः यथा-
शक्ति "पत्रं पुष्पं फलम्" (गी. ९.२६) इत्यादिवचनात् । भक्तिपूतैः पुष्पादि-
भिः नित्यं नियमेन त्रिकालं वा वर्यो पुसि जायालयः पूजे'त्युक्तरीत्या ईश्वरे
स्वशरीरारम्भकार्यकारणलक्षणप्रकृतिलयात्मकतया श्रेष्ठां सपर्या पूजां विदधत्
कुर्वन् ॥ २ ॥
 
१. 'पि कुत्रापि अ' क. ग. पाठः, २. 'ति त्वयि चि' क. पाठः, ३. 'मृदि हृदि '
व्याख्यानुसारी पाठ:.