This page has not been fully proofread.

३२०
 
नारायणीये
 
[स्कन्धः - - ११
 
मानत्वाद् । तरित्या अतिक्रम्य परमसुखमये निरतिशयानन्दस्वरूपे त्वत्पदे पद्यत
इति पदं ब्रह्म त्वत्स्वरूपे ब्रह्मणीत्यर्थः । अथवा परमसुखमये निरतिशयानन्दज-
नके त्वत्पदाब्जे मोदिताहे प्रसन्नो भवितास्मि भक्तजनैः सह भागवतधर्माभ्यासेन
सेविष्य इति भावः । तस्य मोदस्य अयं मायाजयः पूर्वरङ्गः कारणत्वेन प्रथमम
नुष्ठेयः । यदाह बोप्पदेवः - 'मायाजयोऽपरा भक्तिर्ज्ञानकर्मसमुच्चयाद्' इति ।
यद्वा तस्य मायातरणादेर्मदनुष्ठेयस्यार्थस्य अयं मयासकृत् प्रार्थ्यमानो मद्रोगनाश
पूर्वरङ्गः नाटकप्रयोगे नान्द्यादिवत् प्रथममवश्य निर्वर्त्यः । स च त्वत्करुणैका-
यत्त इति त्वामेव प्रार्थयामीत्याशयेन प्रार्थयते - पवनपुरपते ! इति ॥ १० ॥
 
-
 
इति भक्तेरेव निःश्रेयसावाप्तिहेतुत्ववर्णनं, भक्तिस्वरूपतत्कार्यवर्णनं च
एकनवतितमं दशकम् ।
 
ननु सर्वकर्मणां भगवद्धर्मत्वापादनाय विना फलानुसन्धानमीश्वरसमर्पणेना-
नुष्ठानमुक्तम् । तदनुपपन्नं, स्वर्गाद्यर्थमेव ज्योतिष्टोमादीनां विहितत्वात् फलकामस्यै-
व च तत्राधिकारादित्याशङ्कच वेदस्य परोक्षवादत्वात् तात्पर्य दुर्जेयमित्यभिप्रायेण
परिहरति
 
वेदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा
 
तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ! ।
मा भूद् वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति -
दुर्वर्जे चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ १॥
वेदैरिति । वेदैः विधिवाक्यैः सर्वाणि ज्योतिष्टोमादीनि कर्माणि अफलप-
रतया वर्णितानि न फलसाधनत्वेन विहितानि, किन्तु नैष्कर्म्यार्थी विहितानि ।
फलश्रुतिस्तु रोचनार्था । यथा माता बालमौषधं पाययन्ती गुडशर्करादिभिः प्रलोभ-
यन्ती पाययति, ददाति च गुडशर्करादि । नैतावतौषधपानस्य तल्लाभः प्रयोजनम्,
अपि तु रोगनिवृत्तिः, तथा बेदोऽप्यवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्म
विदधातीति बुद्ध्वा तानि फलपरत्वेन श्रुतान्यपि । एवकारेण फलाभिसन्धिर्व्या-
वर्त्यते । ननु यदि नैष्कर्म्यं कर्मणां फलं, तर्हि प्रथममेव कर्म त्यज्यतामित्याश-