This page has been fully proofread once and needs a second look.

३२०
 
नारायणीये
 
[स्कन्धः - - ११
 
मानत्वाद् । तरित्यावा अतिक्रम्य परमसुखमये निरतिशयानन्दस्वरूपे त्वत्पदे पद्यत

इति पदं ब्रह्म त्वत्स्वरूपे ब्रह्मणीत्यर्थः । अथवा परमसुखमये निरतिशयानन्दज-

नके त्वत्पदाब्जे मोदिताहे प्रसन्नो भवितास्मि भक्तजनैः सह भागवतधर्माभ्यासेन

सेविष्य इति भावः । तस्य मोदस्य अयं मायाजयः पूर्वरङ्गः कारणत्वेन प्रथमम
-
नुष्ठेयः । यदाह बोप्पदेवः - --'मायाजयोऽपरा भक्तिर्ज्ञानकर्मसमुच्चयाद्' इति ।

यद्वा तस्य मायातरणादेर्मदनुष्ठेयस्यार्थस्य अयं मयासकृत् प्रार्थ्यमानो मद्रोगना
शः
पूर्वरङ्गः नाटकप्रयोगे नान्द्यादिवत् प्रथममवश्य निर्वर्त्यः । स च त्वत्करुणैका-

यत्त इति त्वामेव प्रार्थयामीत्याशयेन प्रार्थयते - --पवनपुरपते ! इति ॥ १० ॥
 
-
 

 
इति भक्तेरेव निःश्रेयसावाप्तिहेतुत्ववर्णनं, भक्तिस्वरूपतत्कार्यवर्णनं च

 
एकनवतितमं दशकम् ।
 

 
ननु सर्वकर्मणां भगवद्धर्मत्वापादनाय विना फलानुसन्धानमीश्वरसमर्पणेना-

नुष्ठानमुक्तम् । तदनुपपन्नं, स्वर्गाद्यर्थमेव ज्योतिष्टोमादीनां विहितत्वात् फलकामस्यै-

व च तत्राधिकारादित्याशङ्कचक्य वेदस्य परोक्षवादत्वात् तात्पर्य दुर्जेज्ञेयमित्यभिप्रायेण

परिहरति
 
--
 
वेदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा
 

तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ! ।

मा भूद् वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति -
-
र्
दुर्वर्जेजं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ १॥

 
वेदैरिति । वेदैः विधिवाक्यैः सर्वाणि ज्योतिष्टोमादीनि कर्माणि अफलप-

रतया वर्णितानि न फलसाधनत्वेन विहितानि, किन्तु नैष्कर्म्यार्थीथं विहितानि ।

फलश्रुतिस्तु रोचनार्था । यथा माता बालमौषधं पाययन्ती गुडशर्करादिभिः प्रलोभ-

यन्ती पाययति, ददाति च गुडशर्करादि । नैतावतौषधपानस्य तल्लाभः प्रयोजनम्,

अपि तु रोगनिवृत्तिः, तथा बेवेदोऽप्यवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्म

विदधातीति बुद्ध्वा तानि फलपरत्वेन श्रुतान्यपि । एवकारेण फलाभिसन्धिर्व्या-

वर्त्यते । ननु यदि नैष्कर्म्यं कर्मणां फलं, तर्हि प्रथममेव कर्म त्यज्यतामित्याश-