2023-02-16 08:52:44 by ambuda-bot
This page has not been fully proofread.
दशकम् - ९१]
भक्तिस्वरूपतत्कार्यवर्णनम् ।
३१९
भ्यामिति भावः । विवशा अस्वतन्त्रा गतिः उच्चावचशरीरप्राप्तिर्येषां ते तथा ।
दुःखजाले संसारार्णवे क्षिपन्ती पातयन्ती त्वन्माया त्वदधना माया मां त्वत्सेवक-
मपि माभिभूद् मद्बुद्धिमाक्रम्य त्वत्स्मृतिं मापनैषीत् । आयि भुवनपते! श्रीकृष्ण!
तां वारयेति भावः । त्वत्पादे भक्तिरेव तत्प्रशान्त्यै तस्या मायायाः प्रहाणाय कल्प-
ते उपायो भवति, नान्योऽस्त्युपाय इत्यवदत् । सिद्धयोगी सिद्धो जीवन्मुक्तः योगी
चेति सिद्धयोगी नवयोगिष्वन्यतमः । योगिषु मध्ये ज्ञातृज्ञेयज्ञानरहितत्वात् प्र-
बुद्ध इति संज्ञा । स हि विदेहाय राज्ञे "तँन्माययातो बुध आभजेत् तं भक्त्यैकये-
शम्" (श्री. भा. स्क. ११. अ. २. श्लो. ३७) इति मायातारकत्वेन भक्तिमेवाबो-
चत् ॥ ९ ॥
अथ वैराग्यविवेकद्वारा गुरूपसत्तिलब्धभक्तिज्ञानसमुच्चयेन मायाजयप्रका-
रमाह
-
दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या-
लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथायुद्भवद्भक्तिभूमा ।
मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे
तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥ १० ॥
-
दुःखानीति । जन्तुषु सदैव दुःखपरिहाराय सुख प्राप्तये च प्रयतमानेषु
शरीरिषु तत एव जातानि दुःखान्यालोक्य अलम् अतिशयेन उदितविवेकः यथे-
ह पुत्रमित्रधनादयः सुखसाधनत्वेनाभिमन्यमानाः दुःखमेव जनयन्ति कर्मनिर्मित-
स्वादू, एवं स्वर्गेऽपीत्युत्पन्नविविक्तज्ञानः सन् अहमाचार्येषु ज्ञानविज्ञानसम्पन्नेषु
बर्यः परोपदेशकुशलः तस्मात् त्वद्रूपस्य ईश्वरस्वरूपस्य तत्त्वं सम्यग्ज्ञानं लब्ध्वा
अवाप्य गुणचरितानां गुणानां भक्तवात्सल्यादिभगवद्गुणानां तच्चरितानां च कथा
कथनम् । आदेशब्देन कीर्तनादि गृह्यते । गुणचरितकथादिभिः उद्भवन् भक्तेर्भूमा
बाहुल्यम् अनपायित्वं यस्य स तथा । एनामित्युक्तिर्मायाकार्यस्य रागादेरनुभूय-
१. 'कश्वासौ यो' क. ग. पाठ:.
* इयं तु कविनाम्न: सिद्धयोगिन उक्तिः ।