This page has not been fully proofread.

दशकम् - ९१]
 
भक्तिस्वरूपतत्कार्यवर्णनम् ।.
 
३१७
 
जन्मकर्मणां नाम्नां च कीर्तनं, सर्वत्रेश्वरदृष्ट्या प्रणामश्चेह त्वत्सेवोच्यते ।
तस्यां सत्यां तव कृपावश्यंभाविनी । तया मम भक्तेरीश्वरप्रेम्णो दायै स्थैर्य,
ततो विरागो विषयविरक्तिः, ततस्त्वत्तत्त्वस्येश्वर याथातैथ्यस्यावबोधः समय-
गनुभव:, एतत् त्रितयमपि च सिध्येत् । यत्नभेदं विनैवेति । त्वत्कृपायामेव मया
यत्नः कार्यः। तस्यां जातायाम् एतत् त्रयं युगपदेव सिध्येदित्यर्थः ॥६॥
 
किञ्चैवमीश्वरकृपया भक्तिविरक्तिज्ञानेषु जातेषु भक्तकुलोत्तंसतां प्राप्नुया-
मित्याह
-
 
नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा-
चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः ।
इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा-
ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ ७ ॥
 
नो मुह्यनिति । नो मुह्यन् परवशतामगच्छन् । क्षुत्तृडाद्यैः भयतर्षकृच्छ्रादिभिः
भवसरणिभवैः अनादिसंसारमार्गोत्थैः । त्वन्निलीनाशयत्वात् त्वाय ईश्वरे समाहित
चित्तवृत्तित्वात् । किञ्च, चिन्ताया उपासनायाः सातत्यं सततमनुष्ठानं तदस्यास्ती-
ति तथा। निमिषलवमपि निमेषकालस्यार्धमपि कालं त्वत्पदाद् भगवत्पादारविन्द
भजनाद् अप्रकम्पः प्रमादरहितः इष्टानिष्टेषु सत्सु तुष्टिव्यसनविरहितः इष्टेषु
पुत्रजन्मादिषु तुष्टिविरहितः अनिष्टेषु पुत्रमरणादिषु व्यसनविरहितः । मायिकत्वा-
बबोधाद् शरीरादेर्भोग्यस्य मायानिर्मितत्वानुसन्धानात् । ज्योत्स्नाभिः शीतलाभिर्दी-
प्तिभिः । त्वन्नखेन्दोः त्वत्पादनखचन्द्रस्य । अधिकशिशिरितेन सन्तापराहित्यादति-
शयेन सञ्जातानन्देन आत्मना मनसा उपलक्षितः सन् सञ्चरेयं वर्तेय ॥७॥
 
भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्
त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा ।
अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे
त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ ८ ॥
 
१. 'र्थ्यस्या' क. ग. पाठ:. २. 'नु' घ. ङ. च. पाठ: