This page has been fully proofread once and needs a second look.

दशकम् - ९१]
 
भक्तिस्वरूपतत्कार्यवर्णनम् ।.
 
३१७
 
जन्मकर्मणां नाम्नां च कीर्तनं, सर्वत्रेश्वरदृष्ट्या प्रणामश्चेह त्वत्सेवोच्यते ।

तस्यां सत्यां तव कृपावश्यंभाविनी । तया मम भक्तेरीश्वरप्रेम्णो दायैर्ढ्यं स्थैर्यं,

ततो विरागो विषयविरक्तिः, ततस्त्वत्तत्त्वस्येश्वर याथातैत[^१]थ्यस्यावबोधः समय-
म्य-
गनुभव:, एतत् त्रितयमपि च सिध्येत् । यत्नभेदं विनैवेति । त्वत्कृपायामेव मया

यत्नः कार्यः। तस्यां जातायाम् एतत् त्रयं युगपदेव सिध्येदित्यर्थः ॥६॥
 

 
किञ्चैवमीश्वरकृपया भक्तिविरक्तिज्ञानेषु जातेषु भक्तकुलोत्तंसतां प्राप्नुया-

मित्याह
-
 
--
 
नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा-

च्
चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः ।

इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वा[^२]वबोधा-

ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ ७ ॥
 

 
नो मुह्यन्निति । नो मुह्यन् परवशतामगच्छन् । क्षुत्तृडाद्यैः भयतर्षकृच्छ्रादिभिः

भवसरणिभवैः अनादिसंसारमार्गोत्थैः । त्वन्निलीनाशयत्वात् त्वाय ईश्वरे समाहित
-
चित्तवृत्तित्वात् । किञ्च, चिन्ताया उपासनायाः सातत्यं सततमनुष्ठानं तदस्यास्ती-

ति तथा। निमिषलवमपि निमेषकालस्यार्धमपि कालं त्वत्पदाद् भगवत्पादारविन्द
-
भजनाद् अप्रकम्पः प्रमादरहितः इष्टानिष्टेषु सत्सु तुष्टिव्यसनविरहितः इष्टेषु

पुत्रजन्मादिषु तुष्टिविरहितः अनिष्टेषु पुत्रमरणादिषु व्यसनविरहितः । मायिकत्वा-

बोधाद् शरीरादेर्भोग्यस्य मायानिर्मितत्वानुसन्धानात् । ज्योत्स्नाभिः शीतलाभिर्दी-

प्तिभिः । त्वन्नखेन्दोः त्वत्पादनखचन्द्रस्य । अधिकशिशिरितेन सन्तापराहित्यादति-

शयेन सञ्जातानन्देन आत्मना मनसा उपलक्षितः सन् सञ्चरेयं वर्तेय ॥७॥
 

 
भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्

त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा ।

अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे

त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ ८ ॥
 

 
[^
]. 'र्थ्यस्या' क. ग. पाठ:. ठः
[^
]. 'नु' घ. ङ. च. पाठ:
 
ठः