This page has not been fully proofread.

३१६
 
नारायणीये
 
[स्कन्धः- ११
 
-
 
इति । जन्मकर्माणि अवतारतच्चरितानि तन्निबन्धनानि नामानि च क्षेमाणि
पुरुषार्थरूपाणि तदुपायभूतानीत्यर्थः । एतच्च जन्मादित्रयविशेषणम् । भूयः
पुनः पुनर्गायन् कीर्तयन् । एतच्च स्मरणादीनामप्युपलक्षणम् । एवं साधन
भक्त्यनुष्ठानेन सञ्जातप्रेमलक्षणभक्तेः संसारधर्मातीतां गतिमाह – तदुभयत इति ।
जन्मकर्मकीर्तनान्नामकीर्तनाच हेतोरित्यर्थः । प्रद्रुतमतिशीघ्रं प्रद्रुतः द्रवीभूत
आत्मा मनो यस्य स प्रद्रुतात्मा कदाचिद् उद्यद्धासः भक्तपराजितं भगवन्तः
माकलय्य सहस्तताडनं हसतीत्यर्थः । कुहचिद् कचिद् रुदन्नपि एतावन्तं काल
मुपेक्षितोऽस्मीति रोदिति, अथवा भगवति चित्तस्याने काग्रताखेदात् । युद्वा
तद्रूपसाक्षात्काराद्धर्षाश्रूणि मुञ्चन्निति । क्वापि. कदाचिद् गर्जन् अत्यौत्सुक्यादुच्चै-
शब्दं कुर्वन् अतिहर्षेण प्रगायन् कचिच्च जितं जितमिति प्रनृत्यन् प्रकर्षण
सहस्ततालं सशिरः कम्पं नर्तनं कुर्वन् । किं तर्हि भक्तोऽयमिति परान् प्रति
प्रकाशयितुमेतदिति चेद्, नेत्याह – उन्मादवेिति । ग्रहगृहीत इवेत्यर्थः । अवि
भगवन्! मयि करुणां कुरु, येनाहमेवं लोकबाद्यैश्चरेयम् अलौकिको भूत्वा
चरेयम् ॥५॥
 
भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन्
मर्त्यान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि ।
त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदाय विराग-
स्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते ! यत्रभेदं विनैव ॥६॥
 
भूतानीति। किञ्च भूतानि पृथिव्यादीनि पञ्चैतानि । भूतात्मकं पाञ्च-
भौतिकं सकलं चराचरात्मकमपि पक्षिमत्स्यान् मृगादीन् जलस्थलाद्याश्रितान्
मर्त्यान् मित्राणि शत्रूनपि बन्धुशत्रूदासीनांश्च त्वन्मयानि त्वद्रूपाणीति यमित-
मतिः एतानि सर्वाणि श्रीहरे रूपाणीति अनुसंन्दधानः सन् आनमानि प्रणामं
करवाणि । ननूक्तलक्षणा भक्तिर्योगिनामपि बहुजन्मसाध्या कथं भजनमात्रेणैकस्मिन्
जन्मनि भवेदित्याशङ्कयाह – त्वत्सेवायां हि सिध्येदिति । सर्वकर्मणां समर्पणं,
 
१. 'र्षादथ्रु' क. पाठः. २. 'ति बोधयि' क. पाठ:. ३. 'ह्य: अ' क. ग. पाठ:.
४. 'नि दृष्टश्रुतानि । भू' क. ग. पाठः