This page has been fully proofread once and needs a second look.

३१६
 
नारायणीये
 
[स्कन्धः- ११
 
-
 
इति । जन्मकर्माणि अवतारतच्चरितानि तन्निबन्धनानि नामानि च क्षेमाणि

पुरुषार्थरूपाणि तदुपायभूतानीत्यर्थः । एतच्च जन्मादित्रयविशेषणम् । भूयः

पुनः पुनर्गायन् कीर्तयन् । एतच्च स्मरणादीनामप्युपलक्षणम् । एवं साधन
-
भक्त्यनुष्ठानेन सञ्जातप्रेमलक्षणभक्तेः संसारधर्मातीतां गतिमाह--तदुभयत इति ।

जन्मकर्मकीर्तनान्नामकीर्तनाच्च हेतोरित्यर्थः । प्रद्रुतमतिशीघ्रं प्रद्रुतः द्रवीभूत

आत्मा मनो यस्य स प्रद्रुतात्मा कदाचिद् उद्यद्धासः भक्तपराजितं भगवन्तः
त-
माकलय्य सहस्तताडनं हसतीत्यर्थः । कुहचिद् क्वचिद् रुदन्नपि एतावन्तं काल
-
मुपेक्षितोऽस्मीति रोदिति, अथवा भगवति चित्तस्याने काग्रताखेदात् । युद्वा

तद्रूपसाक्षात्काराद्ध[^१]र्षाश्रूणि मुञ्चन्निति । क्वापि. कदाचिद् गर्जन् अत्यौत्सुक्यादुच्चै-

श्
शब्दं कुर्वन् अतिहर्षेण प्रगायन् क्वचिच्च जितं जितमिति प्रनृत्यन् प्रकर्षे

सहस्ततालं सशिरः कम्पं नर्तनं कुर्वन् । किं तर्हि भक्तोऽयमिति परान् प्रति
[^२]
प्रकाशयितुमेतदिति चेद्, नेत्याह--उन्मादवेिदीवेति । ग्रहगृहीत इवेत्यर्थः । अवि
यि
भगवन्! मयि करुणां कुरु, येनाहमेवं लोकबाद्यैह्य[^३]श्चरेयम् अलौकिको भूत्वा

चरेयम् ॥५॥
 

 
भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन्

मर्त्यान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि ।

त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विराग-

स्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते ! यत्भेदं विनैव ॥६॥
 

 
भूतानीति। किञ्च भूतानि पृथिव्यादीनि पञ्चैतानि[^४] । भूतात्मकं पाञ्च-

भौतिकं सकलं चराचरात्मकमपि पक्षिमत्स्यान् मृगादीन् जलस्थलाद्याश्रितान्

मर्त्यान् मित्राणि शत्रूनपि बन्धुशत्रूदासीनांश्च त्वन्मयानि त्वद्रूपाणीति यमित-

मतिः एतानि सर्वाणि श्रीहरे रूपाणीति अनुसंन्दधानः सन् आनमानि प्रणामं

करवाणि । ननूक्तलक्षणा भक्तिर्योगिनामपि बहुजन्मसाध्या कथं भजनमात्रेणैकस्मिन्

जन्मनि भवेदित्याशङ्क्याह--त्वत्सेवायां हि सिध्येदिति । सर्वकर्मणां समर्पणं,
 

 
[^
]. 'र्षादथ्रुश्रू' क. पाठः.
[^
]. 'ति बोधयि' क. पाठ:. ठः
[^
]. 'ह्य: अ' क. ग. पाठ:.
ठः
[^
]. 'नि दृष्टश्रुतानि । भू' क. ग. पाठः