2023-02-16 08:52:43 by ambuda-bot
This page has not been fully proofread.
दशकम् - ९१]
भक्तिस्वरूपतत्कार्मवर्णनम् ।
३१५
१
भक्तेरिति । उत्पत्तिश्च वृद्धिश्च उत्पत्तिवृद्धी तवेश्वरस्य चरणौ जुषन्ते सेवन्ते
इति चरणजुषो भक्ताः, तेषां सङ्गमेन संसर्गेणैव पुंसां शरीरिणाम् आसाद्ये लब्धुं
शक्ये, नान्योऽत्रोपाय इत्यर्थः । 'सत्सेवया विना कस्य विष्णुभक्तिः प्रजायत' इति
वचनात् । तर्हि सत्सङ्गमः कथं स्यादित्यत आह - पुण्यभाजामिति । अनेकजन्मार्जि
तपुण्यसञ्चयानामेव सत्सङ्गमः स्यादिति भावः । अत्रानुरूपं दृष्टान्तमाह श्रिय
इवेति । यथा श्रियो धनधान्यादेरुत्पत्तिवृद्धी श्रीमतां सङ्गमेनैवोत्पाद्ये, तथेत्यर्थः ।
हे देव! श्रीकृष्ण ! मम खलु सततं तत्सङ्गः तेषां भक्तानां सङ्गः संसर्गः भूयात् ।
तन्मुखात् तेषां तव चरणजुषां मुखाद् उन्मिषद्भिः मिथस्त्वच्चरितप्रस्तावेप्रादुर्भूतैः
न तु तैरुपदिष्टैः । अनेन च तेषां भगवच्चरितवर्णनशीलत्वं व्यज्यते । त्वन्माहात्म्य -
प्रकारैः तब विष्णोर्माहात्म्यस्य प्रकारैः श्रवणकीर्तनस्मरणाद्याश्रिततया मार्गभेदैः
भवति श्रीकृष्णे सुदृढा अनपायिनी उद्धूतपापा यथा दूरतोऽपसारिततिमिरनिकर
एव तरणिरुदेति, तद्वद् दूरोत्सारितदुरितनिचया प्रेमलक्षणां भक्तिश्च मम सततं
भूयादित्यनुषज्यते ॥ ४ ॥
अथ सत्सङ्गमात्रेण स्वस्य साधनभक्तिद्वारा साध्यभक्त्युत्पत्तिप्रकारमुत्पश्यन्
प्रथमं स्वस्य भक्तिमार्गेऽधिकारप्राप्तिमाह -
-
श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो
गायन क्षेमाणि नामान्यपि तदुभयतः प्रद्भुतं प्रद्रुतात्मा
उद्यद्धासः कदाचित् कुहचिदपि रुदन् क्वापि गर्जन् प्रगाय-
न्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्वरेयम् ॥ ५ ॥
श्रेयोमार्गेष्विति । श्रेयसः पुरुषार्थस्य मार्गेषु प्राप्तिसाधनेषु कर्मज्ञान-
तपोदानव्रतादिषु मध्ये भक्तौ भक्तिमार्गे अधिका बहुमतिः श्रद्धा यस्य सोऽधिक-
बहुमतिः। सोऽयं भक्तिमार्गेऽधिक्रियत इति भावः । यदुक्तं –
.
"यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥"
१. 'धनिनां स' क. ग. पाठः, २. 'वे प्रा' क. ग. पाठः,
नाथा' क. ग. पाठः,
३. 'णस्मरणनामकीर्त-