This page has been fully proofread once and needs a second look.

दशकम् - ९१]
 
भक्तिस्वरूपतत्कार्मवर्णनम् ।
 
३१५
 

 
भक्तेरिति । उत्पत्तिश्च वृद्धिश्च उत्पत्तिवृद्धी तवेश्वरस्य चरणौ जुषन्ते सेवन्ते

इति चरणजुषो भक्ताः, तेषां सङ्गमेन संसर्गेणैव पुंसां शरीरिणाम् आसाद्ये लब्धुं

शक्ये, नान्योऽत्रोपाय इत्यर्थः । 'सत्सेवया विना कस्य विष्णुभक्तिः प्रजायत' इति

वचनात् । तर्हि सत्सङ्गमः कथं स्यादित्यत आह - --पुण्यभाजामिति । अनेकजन्मार्जि
-
तपुण्यसञ्चयानामेव सत्सङ्गमः स्यादिति भावः । अत्रानुरूपं दृष्टान्तमाह --श्रिय

इवेति । यथा श्रियो धनधान्यादेरुत्पत्तिवृद्धी श्री[^१]मतां सङ्गमेनैवोत्पाद्ये, तथेत्यर्थः ।

हे देव! श्रीकृष्ण ! मम खलु सततं तत्सङ्गः तेषां भक्तानां सङ्गः संसर्गः भूयात् ।

तन्मुखात् तेषां तव चरणजुषां मुखाद् उन्मिषद्भिः मिथस्त्वच्चरितप्रस्तावेव[^२]प्रादुर्भूतैः

न तु तैरुपदिष्टैः । अनेन च तेषां भगवच्चरितवर्णनशीलत्वं व्यज्यते । त्वन्माहात्म्य -
-
प्रकारैः त विष्णोर्माहात्म्यस्य प्रकारैः श्रवण[^३]कीर्तनस्मरणाद्याश्रिततया मार्गभेदैः

भवति श्रीकृष्णे सुदृढा अनपायिनी उद्धूतपापा यथा दूरतोऽपसारिततिमिरनिकर

एव तरणिरुदेति, तद्वद् दूरोत्सारितदुरितनिचया प्रेमलक्षणांणा भक्तिश्च मम सततं

भूयादित्यनुषज्यते ॥ ४ ॥
 

 
अथ सत्सङ्गमात्रेण स्वस्य साधनभक्तिद्वारा साध्यभक्त्युत्पत्तिप्रकारमुत्पश्यन्

प्रथमं स्वस्य भक्तिमार्गेऽधिकारप्राप्तिमाह -
 
-
 
--
 
श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो
 

गायन् क्षेमाणि नामान्यपि तदुभयतः प्रद्भुरुतं प्रद्रुतात्मा

उद्यद्धासः कदाचित् कुहचिदपि रुदन् क्वापि गर्जन् प्रगाय-

न्नु
न्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्रेयम् ॥ ५ ॥
 

 
श्रेयोमार्गेष्विति । श्रेयसः पुरुषार्थस्य मार्गेषु प्राप्तिसाधनेषु कर्मज्ञान-

तपोदानव्रतादिषु मध्ये भक्तौ भक्तिमार्गे अधिका बहुमतिः श्रद्धा यस्य सोऽधिक-

बहुमतिः। सोऽयं भक्तिमार्गेऽधिक्रियत इति भावः । यदुक्तं
 
.
 
--
 
"यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
 

न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥"
 

 
[^
]. 'धनिनां स' क. ग. पाठः,
[^
]. 'वे प्रा' क. ग. पाठः,

[^३]. 'णस्मरण
नाथामकीर्तनाद्या' क. ग. पाठः,
 
३. 'णस्मरणनामकीर्त-