This page has not been fully proofread.

*
 
1
 
नारायणीये
 
[स्कन्धः - १
 
-
 
तदिति । तदेव तादृक् तत्सदृशं यस्य तत् तत्तादृग्, अनुपममित्यर्थः ।
तादृशमाधुर्ययुक्त आत्मा स्वरूपं यस्य तत् तव वपुः सम्प्राप्य वक्षस्यधिवासं
लब्ध्वा सा देवी महालक्ष्मीः स्वभक्तेष्वपि सम्पन्मयी धनधान्यादिरूपिणी भूत्वा
चिरतरं चिरकालं नास्ते चञ्चलेव भवति । अत्र हेतुमाह - परमोत्सुकेति, त्वद्वपुः-
सौभाग्यातिशयेनापहृतहृदयतयेतरत्र गन्तुमशक्यत्वादित्यर्थः । तेन यस्मादेवं
तस्माद् हे अच्युत! विभो ! अस्यास्तव महिप्याः त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात्
त्वद्रूपस्य मानोज्ञके सौभाग्ये यत् प्रेम्णः स्थैर्य तन्मयात् तद्रूपाद् अचापलस्य
चापल्याभावस्य बलादेव चापल्यवार्ता चपलेयमिति वार्ता दुष्कीर्तिरुदभूद् उद्भूता ।
कष्टं बतेति खेदे । गुण एवं दोपहेतुर्जात इति खेदहेतुः । किञ्चे, त्वत्सौभाग्याति-
शयेनोद्भूता त्वत्प्रियतमाया दुष्कीर्तिः त्वामपि स्पृशतीति मम खेद इति भावः ॥
 
१८
 
ननु अस्याः सेवकजनसेवाकादाचित्कतया चापल्यं जातं, किमत्र मया कर्त
व्यमित्याशङ्कां परिहरति -
 
लक्ष्मीस्तावकरामणीयकहतैवेयं परेप्वस्थिरे-
त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ! ।
ये त्वद्धयानगुणानुकीर्तनरसासक्ता हि भक्ता जना-
स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ ५ ॥
 

 

 
लक्ष्मीरिति । इयं लक्ष्मीः तावकं त्वदीयं यद् रामणीयकं सौभाग्यं, तेन हृतै-
ञापहृतहृदयतयैव परेषु त्वदन्येषु स्वभक्तेप्वप्यस्थिरा चपलेत्यस्मिन्नर्थे नैतिह्यमात्रं
प्रमाणं, किन्तु अन्यत् प्रमाणमनुमानमप्यधुना वक्ष्यामि । पूर्वी लक्ष्म्या उद्भूतया चा-
पल्यवार्तया त्वत्सौभाग्यापहृततयेयं परेप्वस्थिरेत्ययमर्थोऽनुमितः तत्र च त्वया
सेवकजनसेवाकादाचित्कत्वमुपाधिः शङ्कितः, अतोऽन्यदनुमानान्तरं वक्ष्यामीत्यर्थः ।
प्रयोगश्च – लक्ष्मीस्त्वत्सौभाग्यापहृततया परेप्वस्थिरा, त्वद्ध्यानगुणानुकीर्तनरसास-
क्तेषु त्वद्भक्तेषु प्रस्तुतत्वच्चरितदत्तादरतया स्थिरवासत्वाद्, या एवं, ता एवं, यथा
त्वद्ध्यानगुणानुकीर्तनरसासक्तेषु त्वद्भक्तेषु दयितप्रस्तावदत्तादरतया स्थिरवासा
गोप्यः त्वत्सौभाग्यापहृतैहृदयतया परेषु स्वभर्तृष्वप्यस्थिरा इति । श्लोकश्च व्या-
ख्यातप्रायः ॥ ५ ॥ J
 
१. 'ति दु' क. पाठः.
यकेन सौभाग्येन हृ' ख. पाठ:
 
२. 'च, ल' क. पाठ:
४. 'मि । प्रयो' क. पाठः,
 
३. 'केन त्वदीयेन रामणी-
५. 'तत' क. पाठ: