This page has not been fully proofread.

दशकम् - ९१]
 
भक्तिस्वरूपतत्कार्यवर्णनम् ।
 
३१५
 
इति । कुहचित् कुत्रापि न स्वलति अनुष्ठानवैकल्यादिना न प्रत्यवायी Veodiss
स्यात् । नापि फलस्यानित्यतया पुनरपि संसारी स्यादित्यर्थः । इति यत्, तदभयतमं
मन्य इति पूर्वेणान्वयः ॥ १॥
 
भगवद्धर्मानाह –
 
भूमन् ! कायेन वाचा मुहुरपि मनसा त्वद्धलमेरितात्मा
यद्यत् कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि ।
जात्यापीह श्वपाकस्त्वयि निहितमनःकर्मवागिन्द्रियार्थ-
प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद विश्वर्यः ॥ २॥
 
भूमन्निति । कायेन शिरःपाण्यादिना वाचा वागिन्द्रियेण मनसा अन्तरि-
न्द्रियेण । अपिशब्दात् सर्वेन्द्रियै रित्यर्थः । तव अन्तर्यामिण: बलेन वासनारूपेण
प्रेरित आत्मा मनो यस्य स तथा मुहुः यद्यत् कुर्वे इति । अयनर्थः - न केवलं
विहितं कर्मैवेति नियमः, किन्तु स्वभावानुसारि लौकिकमपि कर्म श्रीकृष्णे समर्पि-
तं चेद् भगवद्धर्मो भवत्येवेति । असावहं तत् समस्तं परतरे परमात्मनि त्वयि
श्रीकृष्णे अर्पयामि श्रीकृष्णायेदमिति समर्पयामि । अयं चाशयः - यथा राज्ञा
प्रेरितस्य राजपुरुषस्य कर्म राज्ञः प्रीतये भवति, तथा सर्वात्मनेश्वरेण प्रेरितस्य
मम सकलमपि कर्म श्रीकृष्णप्रीतये स्यादिति । अथवा तत्समर्पणमन्त्रपूर्वकं सम-
र्पयामीति । एवं भगवद्धर्मानुष्ठातुर्माहात्म्यमाह - जात्येति । मनः सङ्कल्पविकल्पा-
त्मकं मानसं कर्म । कर्म काथिकम् । वाग् वाचिकम् । इन्द्रियाणि ज्ञानकर्मलक्षणानि ।
अर्थास्तद्विषयाः । प्राणाः पञ्च । विधिप्रतिषेधलक्षणं सर्वे कर्म शरीरवामनःप्र
धानं, तदङ्गतया चेतरेन्द्रियकर्मेति त्रयाणां पृथगुपादानम् । त्वयि ईश्वरे निहिताः
समर्पिताः मनःकर्मवागिन्द्रियार्थप्राणा येन तथाभूतः सन् जाया श्वपाकोऽपि विश्वं
पुनीते । किमुच्यते स्वात्मानं पुनीत इति । त्वत्पदादू विमुख स्मरणादिरहितं
मनो यस्य स तथा । एवम्भूतस्तु विप्रवर्यः सन्नपि नासौ परं चात्मनं वो शोध-
यितुं समर्थ इत्यर्थः ॥ २ ॥
 
१. 'ये इति' ख. पाठः. २. 'च' क. ग. पाठ: