This page has been fully proofread once and needs a second look.

दशकम् - ९१]
 
भक्तिस्वरूपतत्कार्यवर्णनम् ।
 
३१५
 
इति । कुहचित् कुत्रापि न स्लति अनुष्ठानवैकल्यादिना न प्रत्यवायी Veodiss

स्यात् । नापि फलस्यानित्यतया पुनरपि संसारी स्यादित्यर्थः । इति यत्, तदभयतमं

मन्य इति पूर्वेणान्वयः ॥ १॥
 

 
भगवद्धर्मानाह –
 

 
भूमन् ! कायेन वाचा मुहुरपि मनसा त्वद्मेप्रेरितात्मा

यद्यत् कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि ।

जात्यापीह श्वपाकस्त्वयि निहितमनःकर्मवागिन्द्रियार्थ-

प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद् विश्प्रवर्यः ॥ २॥
 

 
भूमन्निति । कायेन शिरःपाण्यादिना वाचा वागिन्द्रियेण मनसा अन्तरि-

न्द्रियेण । अपिशब्दात् सर्वेन्द्रियै रित्यर्थः । तव अन्तर्यामिण: बलेन वासनारूपेण

प्रेरित आत्मा मनो यस्य स तथा मुहुः यद्यत् कुर्वे इति । अयर्थः - --न केवलं

विहितं कर्मैवेति नियमः, किन्तु स्वभावानुसारि लौकिकमपि कर्म श्रीकृष्णे समर्पि-

तं चेद् भगवद्धर्मो भवत्येवेति । असावहं तत् समस्तं परतरे परमात्मनि त्वयि

श्रीकृष्णे अर्पयामि श्रीकृष्णायेदमिति समर्पयामि । अयं चाशयः - --यथा राज्ञा

प्रेरितस्य राजपुरुषस्य कर्म राज्ञः प्रीतये भवति, तथा सर्वात्मनेश्वरेण प्रेरितस्य

मम सकलमपि कर्म श्रीकृष्णप्रीतये स्यादिति । अथवा तत्समर्पणमन्त्रपूर्वकं सम-
र्पया

र्पया[^१]
मीति । एवं भगवद्धर्मानुष्ठातुर्माहात्म्यमाह - --जात्येति । मनः सङ्कल्पविकल्पा-

त्मकं मानसं कर्म । कर्म काथि<flag>यि</flag>कम् । वाग् वाचिकम् । इन्द्रियाणि ज्ञानकर्मलक्षणानि ।

अर्थास्तद्विषयाः । प्राणाः पञ्च । विधिप्रतिषेधलक्षणं सर्वेवं कर्म शरीरवाङ्मनःप्र
-
धानं, तदङ्गतया चेतरेन्द्रियकर्मेति त्रयाणां पृथगुपादानम् । त्वयि ईश्वरे निहिताः

समर्पिताः मनःकर्मवागिन्द्रियार्थप्राणा येन तथाभूतः सन् जात्या श्वपाकोऽपि विश्वं

पुनीते । किमुच्यते स्वात्मानं पुनीत इति । त्वत्पदादूद् विमुखं स्मरणादिरहितं

मनो यस्य स तथा । एवम्भूतस्तु विप्रवर्यः सन्नपि नासौ परं चात्मनं वोवा[^२] शोध-

यितुं समर्थ इत्यर्थः ॥ २ ॥
 

 
[^
]. 'ये इति' ख. पाठः.
[^
]. 'च' क. ग. पाठ:
 
ठः