This page has been fully proofread once and needs a second look.

अथैकादशस्कन्धपरिच्छेदः ।
 

 
प्रवृत्तिलक्षणा लीला प्राच्यैः पद्यैः प्रकीर्तिता ।

निवृत्तिलक्षणा सेयं हरेलींर्लीला निरूप्यते ॥
 

 
सम्प्रति भक्तानां मुक्तिमार्गप्रदर्शनाय भगवद्गुणान् वर्णयितुमारभमाणः प्रथ-

मं मोक्षोपायमौलिभूतस्य भगवदुपासनस्य माहात्म्यं दर्शयति
 
-
 
--
 
श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे-

र्
मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव ।

यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे

धावन्नप्यावृताक्षः स्खलति न कुहचिद् देवदेवाखिलात्मन् ! ॥ १ ॥
 

 
श्रीकृष्णेति । बद्धा रूढपदा मिथ्यार्थे शरीरादौ दृष्टिः अहम्ममाभिमानो

यस्य, अत एव मर्त्यस्य जननमरणधर्मिणः, तस्मादार्तस्य आध्यात्मिकादिदुःख-

पीडितस्य त्वत्पदोपासनमभयतमं न विद्यते भयं यस्मात् तदभयम् अतिशयेना-

भयम् अभयतमं[^१] भवभयनिवर्तकं मन्ये । अभयतमत्वमाह
-
--येनेति । येन त्वत्प
-
दोपासनेन भयं सर्वात्मनैव निरवशेषमेव व्यपसरति अपगच्छति । उपासनसाध-

नेषु च भगवद्धर्मोऽकुतोभय इत्याह--यदिति । इह भगवद्भजनमार्गेषु मध्ये त्व-

त्
प्रणीतान् भक्तानुग्रहाय भगवतैव स्वमुखेनैव प्रोक्तान् अत एव भागवताख्यान्

भजनविधीन् धर्मान् तावत् सत्सङ्गद्वारा क्रमादास्थितं आश्रितः सन् मोहमार्गे

अज्ञानद्वारभूतरथ्यापणगणिकालयगोष्ठ्यादिप्रदेशे[^२]ष्वास्थितो धावन् किञ्चित् किञ्चि-

दतिक्रम्यातिक्रम्य अतिशीघ्रमनुतिष्ठन् अपिच आवृताक्षः निमीलितश्रुतिस्मृत्याख्य-

नयनद्वन्द्वः । अज्ञात्वापीत्यर्थः । यदाहुः -
 
-
 
--
 
" श्रुतिस्मृती उभे नेत्रे विप्राणां परिकीर्तिते ।

एकेन रहितः काणो द्वाभ्यामन्धः प्रकीर्तितः ॥"
 

 
[^
]. 'मं जननमरणभय' क. ग. पाठः,
 

[^
]. 'श आस्थि' क. पाठः,