This page has been fully proofread once and needs a second look.

दशकम् - ९०]
 
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
 
शस्य प्राधान्यमिति गिरिशभजनरुच्युत्पाद[^१]का एवैते, न तु विष्णोस्तामसत्वपरा-

जयादिज्ञापनादौ प्रमाणभूताः ॥ १० ॥
 

 
उक्तेऽर्थे स्वकपोलकल्पितत्वशङ्कां वारयन् कविः श्रोतृश्रद्धां सम्पादयति -
 
-
 
यत्किञ्चिदष्प्यविदुषापि विभो! मयोक्तं
 

तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।

व्यासोक्तिसारमयभागवतोपगीत
 
!
 
के

क्ले
शान् विधूय कुरु भक्तिभरं परात्मन् ! ॥ ११ ॥
 

 
यत्किञ्चिदिति । व्यासोक्तयः पुराणानि तेषां सारमयं श्रीभागवतं, श्री-

वेदव्यासस्य कृतकृत्यतापादकत्वात्, तदुपगीत ! तत्प्रतिपाद्य ! ॥ ११ ॥ ५५९ ॥
 

 
इति आगमादीनां भगवत्येव परमतात्पर्यनिरूपणं नवतितमं दशकं सैकम् ।
 

 
इति नारायणीयस्तोत्रव्याख्यायां
 
"
 

 
भक्तप्रियाख्यायां
 

 
दशमस्कन्धपरिच्छेदः ।
 
३११
 

 
आदितः श्लोकसङ्ख्या ९३४.
 

 
[^१]
. 'दनार्था ए' क. ग. पाठः