This page has not been fully proofread.

नारायणीये
 
"विष्णुर्विरिञ्चश्च यत्पादपद्मं शिरसा बिभर्ति "
इत्यादिवचनैर्हरेर्निकृष्टत व्यासेनैवोक्तेत्याशङ्कच तस्यार्थवादत्वेनातत्परत्वमाह
'ये स्वप्रकृत्यनुगुणम्' इति द्वाभ्यां
 
३१०
 
[स्कन्धः-१०
 
ये स्वप्रकृत्यनुगुणां गिरिशं भजन्ते
तेषां फलं हि दृढयैव तदीयभक्त्या ।
व्यासो हि तेन कृतवानधिकारिहेतोः
स्कान्दादिकेषु तब हानिवचोऽर्थवाढैः ॥९॥
 
य इति। "यस्येच्छा जायते यस्मिन् तं देवं स समाश्रयेद्" इति
न्यायेन स्वप्रकृत्यनुगुणं प्राग्जन्मवासनानुसारेण । तेषां दृढया तदीयभक्त्यैव फलं
भावप्यतीति यत् तेन हेतुना व्यासो अधिकारिहेतोः गिरीशभजनाधिकारिणं
प्रति अर्थवादैः तर्वै हानिवचो न्यूनतावचनानि कृतवान् । अर्थवादाश्च गिरिश-
भजनरुच्युत्पादनार्थाः ॥ ९॥
 
ननु रुच्युत्पादनार्थं चेद्, गिरिशं स्तूयादेव, नान्यहानिवचः कुर्यादित्यत्राह -
 
भूतार्थकीर्तिरनुवादविरुद्धवादौ
त्रेधार्थवाद्गतयः खलु रोचनार्थाः ।
स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा -
स्त्वत्तामसत्वपरिभृत्युपशिक्षणाद्याः ॥ १० ॥
 
भूतार्थेति । भूतार्थकीर्तिः यथावस्थितार्थकीर्तनम्, अनुवादोऽविरुद्धगुणा-
रोपः, प्रमाणान्तरविरुद्धार्थकथनं विरुद्धबाद इति त्रेधार्थवादस्य गतयो मार्गाः ।
त्रयोऽपि रोचनार्था एव । तत्र तेषां मध्ये त्वत्तामसत्वादयो विरुद्धवादाः प्रमाणा-
न्तरविरुद्धवचनानि ते च रोचनार्थाः । विष्णुरपि यत्प्रसादमपेक्षते, अहो गिरि-
क. ग. पाठ:.
 
१. 'ता श्रीवेदव्या' क. ग. पीठ:. २. 'णं' व्याख्यासम्मतः पाठः. ३. 'नुसारेण प्रा
४. 'व विष्णोही' क. ग. पाठः, ५, 'स्तुवीतैव व्यासः । किमर्थे हा-
निवचः कृतवान् इत्याशङ्कायामाह-' क. ग. पाठः. ६. 'वलम्बते' क. ग. पाठः,