2023-02-16 08:52:43 by ambuda-bot
This page has not been fully proofread.
दशकम् - ९०]
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
३०९
मूर्तित्रयेति । मूर्तित्रयातिगं चतुर्थं परमेश्वरं त्वां कलायसुषमं श्रीकृष्ण-
मुवाच । प्रणवे प्रणवार्थत्वेन तत्र निष्कलध्यानाङ्गत्वेन सकलं त्वामेव निजगाद,
नान्यं शिवमित्यर्थः ॥ ६॥
पुराणानां विष्णुमहिमपरत्वं पुराणसंग्रहे स्पष्टमित्याह-
समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ ७॥
समस्तेति । ननु वैकुण्ठलोकः सत्यलोकान्तर्गतः ब्रह्माण्डाद् बहिष्ठ॑स्तु
नहि लोक इति चेद् नैवमित्याह — त्रिमूर्तीति । मूर्तित्रययुक्तेभ्यः सत्यलोकस्थ-
लोकत्रयेभ्यः परं ब्रह्माण्डाद् बहिष्ठं यत् पदं लोकः, तत् ते तव वैकुण्ठलोक
एवेति पुराणसंग्रहे कथितम् ॥ ७ ॥
यद् ब्राह्मकल्प इह भागवतद्वितीय-
स्कन्धोदितं वपुरनावृतमीश ! धात्रे ।
तस्यैव नाम हरिशर्वमुखं जगाद
श्रीमाधवः शिवपरोऽपि पुराणसारे ॥८॥
S
१
यदिति । यस्मिन् ब्रह्माभूत् स ब्राह्मः कल्पः तस्मिन् भगवता धात्रे
प्रत्यक्षीकृतं यद् वपुः तस्य वपुष एव हरिशर्वमुखं नाम जगाद श्रीमाधवाचार्यः
पुराणसारे । यद्यप्यसौ शिवपरस्तथापि पुराणसारे धात्रे दर्शितस्य वपुषो न
शिवमूर्तित्वमुक्तवान्, सर्वमयस्तु त्वमेवेति च त्वामेवोक्तवानित्यर्थः ॥ ८ ॥
ननु
"गोप्ता विष्णुस्तमोमूर्तिर्व्यापारेण तु सात्त्विकः । "
"तदधीनो हरिः साक्षादू"
१. 'म् ॥' क. ग. पाठ:. २. 'ष्ट: शिवलो' ख. ग. पाठः. ३. 'पा' क. घ. ङ.
४. 'त्रे ब्रह्मणे अनावृतं प्र' ग. पाठ:. ५. 'न् सर्वमूर्तित्वमेवोक्तवान्, स
च. पाठः.
क. ग. पाठ..