This page has been fully proofread once and needs a second look.

दशकम् - ९०]
 
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
 
३०९
 
मूर्तित्रयेति । मूर्तित्रयातिगं चतुर्थं परमेश्वरं त्वां कलायसुषमं श्रीकृष्ण-

मुवाच । प्रणवे प्रणवार्थत्वेन तत्र निष्कलध्यानाङ्गत्वेन सकलं त्वामेव निजगाद,

नान्यं शिवमि[^१]त्यर्थः ॥ ६॥
 

 
पुराणानां विष्णुमहिमपरत्वं पुराणसंग्रहे स्पष्टमित्याह-
-
 
समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते ।

त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ ७॥
 

 
समस्तेति । ननु वैकुण्ठलोकः सत्यलोकान्तर्गतः ब्रह्माण्डाद् बहिष्ठ॑ठ[^२]स्तु

नहि लोक इति चेद् नैवमित्याह--त्रिमूर्तीति । मूर्तित्रययुक्तेभ्यः सत्यलोकस्थ-

लोकत्रयेभ्यः परं ब्रह्माण्डाद् बहिष्ठं यत् पदं लोकः, तत् ते तव वैकुण्ठलोक

एवेति पुराणसंग्रहे कथितम् ॥ ७ ॥
 

 
यद् ब्राह्मकल्प इह भागवतद्वितीय-

स्कन्धोदितं वपुरना[^३]वृतमीश ! धात्रे ।

तस्यैव नाम हरिशर्वमुखं जगाद
 

श्रीमाधवः शिवपरोऽपि पुराणसारे ॥८॥
 
S
 

 

 
यदिति । यस्मिन् ब्रह्माभूत् स ब्राह्मः कल्पः, तस्मिन् भगवता धात्रे
[^४]
प्रत्यक्षीकृतं यद् वपुः, तस्य वपुष एव हरिशर्वमुखं नाम जगाद श्रीमाधवाचार्यः

पुराणसारे । यद्यप्यसौ शिवपरस्तथापि पुराणसारे धात्रे दर्शितस्य वपुषो न

शिवमूर्तित्वमुक्तवान्[^५], सर्वमयस्तु त्वमेवेति च त्वामेवोक्तवानित्यर्थः ॥ ८ ॥
 

 
ननु
 

 
"गोप्ता विष्णुस्तमोमूर्तिर्व्यापारेण तु सात्त्विकः । "

"तदधीनो हरिः साक्षादूद्"
 

 
[^
]. 'म् ॥' क. ग. पाठ:. २. 'ष्ट: शिवलो' ख. ग. पाठः.
[^२]. 'ष्ठः शिवलो' ख. ग. पाठः
[^
]. 'पा' क. घ. ङ.
च. पाठः
[^
]. 'त्रे ब्रह्मणे अनावृतं प्र' ग. पाठ:. ठः
[^
]. 'न् सर्वमूर्तित्वमेवोक्तवान्, स
 
' क. ग. पाठः.
 
क. ग. पाठ..