2023-02-16 08:52:42 by ambuda-bot
This page has not been fully proofread.
नारायणीये
[स्कन्धः - १०
तं चेति । त्रिमूर्त्यतिगतं मूर्तित्रयात् परं तं शैवानामीश्वरशब्दवाच्यं परं
ब्रह्माण्डाद् बहिष्ठं पुरुषम् एकांशेन पुरं ब्रह्माण्डं प्रविश्य च स्थितम्
अन्तर्गतानेकब्रह्माण्डं त्वां खलपासनविधी शैवान् प्रति शर्वात्मना शिवस्वरूपेणापि
शंसन्ति पौराणिकाः। सर्वमयत्वहेत्तोरिति । तब त्रिमूर्त्यधिष्ठानत्वात् तदपि
नात्यन्तमयुक्तमित्यर्थः । तदपि तथापि स्वतः परमार्थतस्त्वद्रूपमेव तद्, न ब्रह्म-
शिवयोरित्यत्र बहु नः प्रमाणमिति । श्रुतिपुराणवचनप्रत्यक्षादिप्रमाणानि बहूनि
सन्तीत्यर्थः। श्रुतिस्तावत् पुरुषसूक्तादौ । 'केहग्विधाविगणिते'त्यादीनि पुराण-
बचनानि । एवंरूपस्यार्जुनादिभिर्दृष्टत्वात् प्रत्यक्षमपि प्रमाणमित्यलम् ॥ ४ ॥
३०८
श्रीशङ्करोऽपि भगवान् सकलेषु तावत्
त्वामेव मानयति यो न हि पक्षपाती ।
त्वन्निष्टमेव स हि नामसहस्रकादि
व्याख्यद् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥५॥
श्रीशङ्कर इति। किञ्च श्रीशङ्करः भगवत्पादाचार्यः । त्वान्नष्ठं विष्णुपरम्।
नामसहस्रकादीति । आदिशब्देन श्रीगीतादि गृह्यते । सोऽपि तदुभयमपि शिवपर-
तया व्याख्यातुं शक्यमपि विष्णुपरतयैव व्याख्यातवान् । अन्ते च भवत्स्तुतिपरः
श्रीमत्पाद।दिकेशस्तुतिं कुर्वन् गतिं मोक्षं गतः, न तु शिवस्तुतिपरः ॥५॥
सकलेषु त्वामेव मानयतीति यदुक्तं, तदेवाह--
मृतिंत्र्यातिगमुवाच च मन्त्रशास्त्र -
स्यादौ कलायसुषमं सकलेश्वरं त्वाम् ।
ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
त्वामेव तत्र सकलं निजगाद नान्यम् ॥ ६ ॥
पाठ:.
[ १. 'रं गतं शै' क. पाउ:., 'रतः शै'ख. पाठ:. २. 'द्वेतो: त' क.ग. पाठः ३. 'ताण्डपराणु-
चर्यावाताध्वरोमविवरस्य च ते महित्वमित्या (श्री. भा. १० १४.११) क. ग.
४. 'हि' क. घ. ङ. च. पाठ:. ५. 'वान् । त्व' क. पाठः, 'वत्पादः । त्व' ग. पाठः
'ते। 'श्रीशङ्कराचार्यो· हि सहस्रनामगीतादिकं शि' क. ग. पाठ:.
६.