This page has been fully proofread once and needs a second look.

दशकम् - ९०] आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
 
पक्षे "विष्णुं पञ्चात्मकं वन्दे " इत्युक्ते श्रीभागवतपक्षे परात्मवपुः परमात्मस्वरू
-
पस्त्वं विष्णुरेवेत्यर्थः। एवं विकुण्ठपदो वैकुण्ठवासी त्वमेवेश्वरशब्दवाच्यः । त्रयो

भागा ब्रह्मविष्णुशिवलोका यस्मिंस्तत् त्रिभागं तस्मिन् सत्यपदे सत्यलोके त्रयो

ब्रह्मविष्णुगिरिशाः तेषां भावस्त्रित्वं, सत्यलोकस्थब्रह्मविष्णुशिवलोकेषु त्रिमूर्तित्व-

मपि त्वमेव भजसीत्यर्थः । यथा हरिवंशे-
-
 
"अहं त्वं सर्वगो देव ! त्वमेवाहं जनार्दन ! ।

आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ! ॥ "
 

 
इति ॥ २ ॥
 

 
ननु यदि विष्णुशिवयोरभेदः, तर्हि कथं विष्णोः प्राधान्यमुच्यते । सत्यम् ।

यद्यपि तस्त्त्वदृष्ट्या भेदो नास्ति, तथापि गौणो भेदः उत्कर्षो निकर्षश्चानयोर्भ-

वत्येवेत्याह--
इति ॥ ३ ॥
 

 
तत्रापि सात्त्विकतनुं तव विष्णुमाहु-

र्धाता तु सत्त्वविरलो रजसैव पूर्ण: ।

सत्त्
वोत्कटत्वमपि चास्ति तमोविकार-

चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥ ३ ॥
 

 
तत्रापीति । तत्र त्रिमूर्तिषु तव सात्त्विकीं शुद्धसत्त्वमयीं तनुं विष्णुं

केवल विष्णुशब्दवाच्या माहुरित्यर्थः । तदुक्तं
 
--
 
"राजसो भगवान् ब्रह्मा सात्त्विको विष्णुरुच्यते ।

ईषत्तमोगुणो रुद्रः सृजत्यवति हन्त्यजः ॥"
 

 
इति ॥ ३ ॥
 
ननु "तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेवे"त्युक्तम् । तदयुक्तम्,

 
"अम्बिकापतिरीशान उपास्यो गुणमूर्तिभिः ।

ईश्वरः परमात्मैको मायया स त्रिधा स्थितः ॥"
 

 
इति वचनादिति चेदूद्, नेत्याह-
-
 
तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां

शर्वात्मनापि खलु सर्वमयत्वहेतोः ।

शंसन्त्युपासनविधौ तदपि स्वतस्तु
 

त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥ ४ ॥