2023-02-16 08:52:42 by ambuda-bot
This page has not been fully proofread.
नारायणीये
[स्कन्धः - १०
वृकेति । मोहिनी विष्णुमाया । तव विष्णोर्महत्त्वं सर्वेषां शर्वादीनां
देवानां जैत्रं न्यूनतापादकम् । तत्र वृकादिचतुर्णां चरितेषु शिवस्य जैत्रं त्वन्महत्त्वम्,
इन्द्रयाग - नन्दहरण- बालानयन - अनलपान - वत्सस्तेयादिषु इन्द्रवरुणयमानलब्रह्मा-
दिजैत्रं त्वन्महत्त्वमिति स्थितम् अत्रैव दृढीकृतम् । अत्र हेतु परमात्मन्निति ।
निरुपाधिकपरमात्मत्वमेवोपपादयति
-
– निष्कलेति । निष्कले परमात्मनि ततोऽर्वाक्
सकलेषु ब्रह्मविष्णुगिरीशादिषु च यत् किमप्यभिन्नं रूपं परमात्मतत्त्वम् अवभातं,
तदेव तब विष्णो रूपं तद्रूपं च तवैव, न तेषाम् । हि यस्मादेवं विष्णोरवस्थाभे-
दा गिरिशादयः, तस्मात् त्रिमूर्तिषु विष्णोरेव महत्त्वमुक्तमित्यर्थः । तदुक्तं
श्रीभागवते ---
" सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते ।
स्थित्यादये हरिविरिञ्चहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः॥ "
इति ॥ १ ॥
(स्क. १. अ. २. श्लो. २३)
ननु
"एवमेको महादेवो मायया गुणरूपया ।
नामरूपक्रियाभेदैभिन्नवत् प्रतिभासते ॥"
इति वचनात् शिवस्यैवावस्थाभेदो मूर्तित्रयप्राधान्यं चेत्याशङ्कय संज्ञाभेद एवॉयं,
न संज्ञिनि वस्तुस्वरूप इति परिहरति -
मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
माहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ २ ॥
मूर्तित्रयेति। ब्रह्मविष्णुगिरिशेश्वरसदाशिवाख्यमूर्तिभेदेन पञ्चात्मकः शिव
इति यत् प्राहुः शैवाः, तत्र शैवानां पक्षे यः सदाशिवॅशब्दवाच्यः सोऽस्मिन्
१. 'तुत्वेन सम्बोधयति – हे परमात्मन् ! । नि' क. ग. पाठः. २. ' तु ब्रह्मगिरिशादे: ।
हि' क. ग. पाठः ३. 'यं विवादो, न' क. ग. पाठः, ४. 'ववा' ख. पाठः●