This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
वृकेति । मोहिनी विष्णुमाया । तव विष्णोर्महत्त्वं सर्वेषां शर्वादीनां

देवानां जैत्रं न्यूनतापादकम् । तत्र वृकादिचतुर्णां चरितेषु शिवस्य जैत्रं त्वन्महत्त्वम्,

इन्द्रयाग - -नन्दहरण- बालानयन - -अनलपान - -वत्सस्तेयादिषु इन्द्रवरुणयमानलब्रह्मा-

दिजैत्रं त्वन्महत्त्वमिति स्थितम् अत्रैव दृढीकृतम् । अत्र हेतु तुः[^१]--परमात्मन्निति ।

निरुपाधिकपरमात्मत्वमेवोपपादयति
 
-
 
--निष्कलेति । निष्कले परमात्मनि ततोऽर्वाक्

सकलेषु ब्रह्मविष्णुगिरीशादिषु च यत् किमप्यभिन्नं रूपं परमात्मतत्त्वम् अवभातं,

तदेव त विष्णो रूपं तद्रूपं च तवैव, न ते[^२]षाम् । हि यस्मादेवं विष्णोरवस्थाभे-

दा गिरिशादयः, तस्मात् त्रिमूर्तिषु विष्णोरेव महत्त्वमुक्तमित्यर्थः । तदुक्तं

श्रीभागवते ---
 
--
 
" सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते ।

स्थित्यादये हरिविरिञ्चहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः॥ "

इति ॥ १ ॥

(स्क. १. अ. २. श्लो. २३)
 

 
ननु
 

 
"एवमेको महादेवो मायया गुणरूपया ।

नामरूपक्रियाभेदैर्भिन्नवत् प्रतिभासते ॥"
 

 
इति वचनात् शिवस्यैवावस्थाभेदो मूर्तित्रयप्राधान्यं चेत्याशङ्क्य संज्ञाभेद एवॉव[^३]यं,

न संज्ञिनि वस्तुस्वरूप इति परिहरति -
 
--
 
मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
 
मा

प्रा
हुः परात्मवपुरेव सदाशिवोऽस्मिन् ।

तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
 

त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ २ ॥
 

 
मूर्तित्रयेति। ब्रह्मविष्णुगिरिशेश्वरसदाशिवाख्यमूर्तिभेदेन पञ्चात्मकः शिव

इति यत् प्राहुः शैवाः, तत्र शैवानां पक्षे यः सदाशिवॅव[^४]शब्दवाच्यः, सोऽस्मिन्
 

 
[^
]. 'तुत्वेन सम्बोधयति--हे परमात्मन् ! । नि' क. ग. पाठः.
[^
]. ' तु ब्रह्मगिरिशादे: ।
 
हि' क. ग. पाठः
[^
]. 'यं विवादो, न' क. ग. पाठः,
[^
]. 'ववा' ख. पाठः