This page has not been fully proofread.

दशकम् - ९०]
 
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
 
निश्चित्य ते च सुदृढं त्वयि वद्धभावाः
सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत ! पुनश्च्युतिदोपहीनं
सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ९ ॥
 
निश्चित्येति । बद्धो भावो भक्तिर्येषाम् । सारस्वताः सरस्वतीतीरवासिनः ॥९॥
 
जगत्यादौ त्वां निगमनिवर्वन्दिभिरिव
स्तुतं विष्णो ! सच्चित्परमरसनितम् ।
परात्मानं भूमन् ! पशुपवनिताभाग्यनिवहं
परीतापान्त्यै पवनपुरवासिन् ! परिभजे ॥१० ॥
 
३०५
 
जगदिति । निगमनिबह्रैः मूर्तिमतीभिरुपनिषद्भिः जगत्सृष्ट्यादौ सगुणत्वेन
स्तुतम् । सच्चिदिति । सच्चिदानन्दाद्वयपरमात्मरूपेण च स्तुतमिति भावः । पशुपवनि-
तानां भाग्यं तत्फलं नितरां वहति प्रापयतीति तथा । यद्वा भाग्यानां निवहं श्रीकृ
ष्णरूपेण परिणतमिति । एवञ्च त्रिमूर्तिषु विष्णोरेव महत्त्वमित्यस्मिन्नर्थे सारस्वता
मुनिवरा निगमनिवहाश्च प्रमाणमित्यप्युक्तं वेदितव्यम् ॥ १० ॥
 
इति वृकासुरवधवर्णनं मूर्तित्रितये भगवतः श्रैष्ठयवर्णनं च
 
एकोननवतितमं दशकम् ।
 
ननु त्रिमूर्तिषु महत्त्वं श्रीशङ्करस्यैवेति स्कान्दादौ बहुशः श्रूयत इत्या-
शङ्कय परिहरति-
वृकभृगुमुनिमोहिन्यम्बरीपादिवृत्ते-
ध्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।
स्थितमिह परमात्मन् ! निष्कलार्वागभिन्नं
 
किमपि यदवभातं तद्धि रूपं तवैव ॥ १ ॥