This page has been fully proofread once and needs a second look.

दशकम् - ९०]
 
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
 
निश्चित्य ते च सुदृढं त्वयि वद्धभावाः

सारस्वता मुनिवरा दधिरे विमोक्षम् ।

त्वामेवमच्युत ! पुनश्च्युतिदोपहीनं

सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ९ ॥
 

 
निश्चित्येति । बद्धो भावो भक्तिर्येषाम् । सारस्वताः सरस्वतीतीरवासिनः ॥९॥
 
जगत्यादौ त्वां निगमनिवर्वन्दिभिरिव
स्तुतं विष्णो ! सच्चित्परमरसनितम् ।
परात्मानं भूमन् ! पशुपवनिताभाग्यनिवहं
परीतापान्त्यै पवनपुरवासिन् ! परिभजे ॥१० ॥
 
३०५
 
जगदिति । निगमनिबह्रैः मूर्तिमतीभिरुपनिषद्भिः

 
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
स्तुतं विष्णो ! सच्चित्परमरसनिर्द्वैतवपुषम् ।
परात्मानं भूमन् ! पशुपवनिताभाग्यनिवहं
परीतापाश्रान्त्यै पवनपुरवासिन् ! परिभजे ॥१० ॥
 
जगदिति । निगमनिवहैः मूर्तिमतीभिरुपनिषद्भिः जगत्सृष्ट्यादौ
सगुणत्वेन

स्तुतम् । सच्चिदिति । सच्चिदानन्दाद्वयपरमात्मरूपेण च स्तुतमिति भावः । पशुपवनि-

तानां भाग्यं तत्फलं नितरां वहति प्रापयतीति तथा । यद्वा भाग्यानां निवहं श्रीकृ
-
ष्णरूपेण परिणतमिति । एवञ्च त्रिमूर्तिषु विष्णोरेव महत्त्वमित्यस्मिन्नर्थे सारस्वता

मुनिवरा निगमनिवहाश्च प्रमाणमित्यप्युक्तं वेदितव्यम् ॥ १० ॥
 

 
इति वृकासुरवधवर्णनं मूर्तित्रितये भगवतः श्रैष्ठ्यवर्णनं च
 

 
एकोननवतितमं दशकम् ।
 

 
ननु त्रिमूर्तिषु महत्त्वं श्रीशङ्करस्यैवेति स्कान्दादौ बहुशः श्रूयत इत्या-

शङ्क्य परिहरति-
-
 
वृकभृगुमुनिमोहिन्यम्बरीपाषादिवृत्ते-
ध्

ष्
वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।

स्थितमिह परमात्मन् ! निष्कलार्वागभिन्नं
 

किमपि यदवभातं तद्धि रूपं तवैव ॥ १ ॥