This page has not been fully proofread.

दशकम् -
 
--
 
भगवद्रूपवर्णनम् ।
 
१७
 
परार्थ्यानि रत्नानि येषु, तैरङ्गुलीयै(श्चा) ङ्किालन श्रीमता शोभमानेनाजानु-
तैरङ्गुलीयै(श्चा)ङ्कितेनालङ्कृतेन
 
-
 

 
लम्बिना पीवरेण बाहुचतुष्केण सङ्गतानि गृहतिानि गदाशङ्खारिपङ्केरुहाणि यस्यां
सा तथा, ताम् । काञ्चनकाञ्चिलाञ्छितेति । काञ्चनकाञ्च्या उपरिविन्यस्तया ला
ञ्छितं सञ्जातपरभागं स्वतः समुल्लसत्पीताम्बरमालम्बितुं परिधातुं शीलमस्या इति
तथा, ताम् । विमलाम्बुजद्युतिपदां प्रतिनवारुणसरोजवद् विराजमानपदयुगलाम् ।
भक्तानां हृदि सन्निविष्टा सती तेपामाध्यात्मिकाद्यार्ति पीडां छिनत्तीत्यार्तिच्छित्,
ताम् । काञ्चिद् ब्रह्मादिभिरप्यशक्यवर्णन सौभाग्याम् । तव मूर्तिमालम्बे आश्रयामि,
ऊर्ध्वमुखीकृतोन्निद्रहृदयकमलकर्णिकायां न्यस्योपास्मह इत्यर्थः ॥ २ ॥
 
सम्प्रति भगवन्मूर्तेः सौभाग्यं वर्णयति-
-२]
 
-
 
यत् त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तर तोऽपि सुन्दरतरं त्वदूपमार्यतो-
sप्याथर्य भुवने न कस्य कुतुकं पुष्णाति विष्णो ! विभो ! ॥ ३ ॥
यदिति । त्रैलोक्येऽस्मिन् जगति यद् महीयः अतिशयेन महत् पूजितम्
उत्कृष्टं वस्तु, तस्मादपि महितम् अत्युत्कृष्टं यत् । यच्च त्रैलोक्ये मोहनं वस्तु,
तस्मादप्यतिमोहनमाह्लादकम् । यच्च कान्तिनिधानतः शोभापात्रीभूताद् वस्तुनोऽपि
कान्तमतिशोभनं सकलेन्द्रियाकर्षणसिद्धौषधम् । यच्च माधुर्यधुर्याद् माधुर्यकार्यस-
मर्थाद् वस्तुनोऽपि मधुरमतिमाधुर्ययुक्तं सन्तापशान्तिकरम् । यच्च सौन्दर्येणोत्तरमु-
त्कृष्टृमतिसुन्दरं च यद्वस्तु, तस्मादपि सुन्दरतरम् । यच्चाश्चर्यम् अद्भुतरसालम्बन
भूतं वस्तु, तस्मादप्याश्चर्यतरं चॅ। हे विभो ! संसारार्णवोत्तारणसमर्थ ! हे
विष्णो ! तादृशं त्वद्रूपं भुवने कस्य कुतुकं न पुष्णाति, बद्धमुक्तमुमुक्षुजनानाम-
प्यतिशयेन श्रवणस्मरणाद्यौत्सुक्यं ददात्येवेत्यर्थः ॥ ३ ॥
 
तत्तादृमधुरात्मकं तव वपुः सम्माप्य सम्पन्मयी
सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या वत कष्टमच्युत ! विभो ! त्वद्रूपमानोज्ञक-
प्रेमस्थैर्यमयादचापलवलाच्चापल्यवादभूत् ॥ ४ ॥
 
१. 'ञ्च्या ला' ख. पाठः
३. 'टं च' ख. पाठः ४.
 
२ 'ति । उपरि विन्यस्तया काञ्चनमय्या काञ्च्या ला' क.पाठः,
'च यत् । हे' क. पाठ: