This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १०
 
मोक्तारमिति । स दैत्यः रुद्रमेव प्राद्रवत् । बन्धमुक्तो हरिणपतिर्मृगेन्द्रः
मोक्तारमिव । तव पदं वैकुण्ठम् । तस्थिषे दानवाय वृकासुरायात्मानं प्रकाश्य
स्थितवान् ॥ ५॥
 
३०४
 
भद्रं ते शाकुनेय ! भ्रमसि किमधुना त्वं पिशाचस्य वाचा
सन्देहचेन्मदुक्तौ तव किमु न करोग्यङ्गुलीमङ्ग ! मौलौ ।
इत्थं त्वद्वाक्यमूढः शिरसि कुतकरः सोऽपतच्छिन्नपातं
भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ६ ॥
 
भद्रमिति। छिन्नपातमपतत् छिन्नमूलतरुवत् पपात । परोपासितुरप्येवं
त्वत्कृतो भ्रंशो भवति । शूलिनोऽपि गतिः शरणं च त्वं विष्णुरेव भवति ॥ ६॥
 
भृगुं किल सरस्वतीनिकटवासिनस्तापसा-
स्त्रिमूर्तिषु समादिशन्नधिकसत्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोष विधौ
 
हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ ७॥
 
भृगुमिति । अधिकसत्त्वतां महत्त्वम् । अयं भृगुः ब्रह्मपुत्रः अकृतप्रणा-
मस्तदनादरादुदितः पुनश्च रुद्धो रोषो येन तथाविधे सति विधौ हरे रुद्रेऽपि च
भ्रातृस्नेहेन परिरम्भणारम्भे तदनादरजनितरुपा जिहिंसिषौ हन्तुमिच्छति सति
गिरिजया घृते वारिते च सति बैकुण्ठमगात् ॥ ७ ॥
 
सुप्तं रमाकभुवि पङ्कजलोचनं त्वां
विशे विनिम्नति पदेन मुद्रोत्थितस्त्वम् ।
सर्वे क्षमस्व मुनिवर्य ! भवेत् सदा मे
त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥८॥
 
सुप्तमिति । त्वत्पादचिह्नं श्रीवत्साख्यम् ॥ ८ ॥
 
१. 'किं' घ. पाठः, २. 'यस्य त' क. ग. पाठः,