This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
मोक्तारमिति । स दैत्यः रुद्रमेव प्राद्रवत् । बन्धमुक्तो हरिणपतिर्मृगेन्द्रः

मोक्तारमिव । तव पदं वैकुण्ठम् । तस्थिषे दानवाय वृकासुरायात्मानं प्रकाश्य

स्थितवान् ॥ ५॥
 
३०४
 

 
भद्रं ते शाकुनेय ! भ्रमसि किमधुना त्वं[^१] पिशाचस्य वाचा

सन्देहश्चेन्मदुक्तौ तव किमु न करोग्ष्यङ्गुलीमङ्ग ! मौलौ ।

इत्थं त्वद्वाक्यमूढः शिरसि कुतकरः सोऽपतच्छिन्नपातं

भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ६ ॥
 

 
भद्रमिति। छिन्नपातमपतत् छिन्नमूलतरुवत् पपात । परोपासितुरप्येवं

त्वत्कृतो भ्रंशो भवति । शूलिनोऽपि गतिः शरणं च त्वं विष्णुरेव भवति ॥ ६॥
 

 
भृगुं किल सरस्वतीनिकटवासिनस्तापसा-

स्त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।

अयं पुनरनादरादुदितरुद्धरोषे विधौ
 

हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ ७॥
 

 
भृगुमिति । अधिकसत्त्वतां महत्त्वम् । अयं भृगुः ब्रह्मपुत्रः अकृतप्रणा-

मस्तदनादरादुदितः पुनश्च रुद्धो रोषो येन[^२] तथाविधे सति विधौ हरे रुद्रेऽपि च

भ्रातृस्नेहेन परिरम्भणारम्भे तदनादरजनितरुपाषा जिहिंसिषौ हन्तुमिच्छति सति

गिरिजया घृते वारिते च सति बैकुण्ठमगात् ॥ ७ ॥
 

 
सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां

विशेप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम्नति पदेन मुद्रोत्थितस्त्वम् ।

सर्वेवं क्षमस्व मुनिवर्य ! भवेत् सदा मे

त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥८॥
 

 
सुप्तमिति । त्वत्पादचिह्नं श्रीवत्साख्यम् ॥ ८ ॥
 

 
[^
]. 'किं' घ. पाठः,
[^
]. 'यस्य त' क. ग. पाठः,