This page has not been fully proofread.

दशकम् - ८९]
 
वृकासुरवधवर्णनम् ।
 
भ्रष्टा भवन्ति वत कष्टमदीर्घदृष्टया
 
स्पष्टं वृकासुर उदाहरणं किलास्मिन् ॥ २ ॥
 
सद्य इति । सद्यः अल्पाभ्यां गुणदोषाभ्यां सद्यः प्रसादाः सद्योरुषिताश्च
विधिशङ्करादयः । केचिद् निजगुणानुगुणं स्वस्ववासनानुसारेण तान् भजन्तः अन-
न्तरमशान्ततया तद्रोषेणैव भ्रष्टा भवन्ति । कष्टं बतेति खेदे । अदीर्घदृष्टया अति-
चिरविष्णुभजनमान्द्यादेवान्यभजनमिति भावः । तदुक्तं -
 
" रागी स पुरुषोऽवश्यं फलं प्रेप्सति शङ्करात् ।
ततः फलं स लभते ततस्तं विस्मरिष्यति ॥
 
"
 
इति । अस्मिन्नर्थे वृकासुर: स्पष्टम् अनुरूपम् उदाहरणम् ॥ २ ॥
 
३०३
 
शकुनिजः स हि नारदमेकदा त्वरिततोषम पृच्छदधीश्वरम् ।
सच दिदेश गिरीशमुपासितुं न तु भवन्तमवन्धुमाधुषु ॥ ३ ॥
 
शकुनिज इति । स हि वृकासुरः त्वरिततोषं सद्यःप्रसादमधीश्वरमपृच्छत् ॥
तपस्तप्त्वा घोरं स खलु कुपितः सप्तम दिने
 
शिरश्छित्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
 
जगन्नाथाद् वत्रे भवति विमुखानां क शुभधीः ॥ ४ ॥
 
तप इति । उपस्थाप्य प्रत्यक्षीकृत्य । अतिक्षुद्रम् असारम् । रौद्रं क्रूरम् ।
भवति विष्णौ ॥ ४ ॥
 
१. 'त्यो भी' क. घ, ङ. च. पाठ:.
 
मोक्तारं वन्धमुक्तो हरिणपतिरिव प्राद्रवत् सोऽथ रुद्रं
दैत्याद् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुवीक्ष्य शर्वे
दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ५ ॥