This page has not been fully proofread.

नारायणी ये
 
आर्ति तीर्त्वा समस्ताममृतपद्मगुः सर्वतः सर्वलोकाः
स त्वं विश्वार्तिशान्त्यै पवनपुरपते ! भक्तिपूर्त्यै च भूयाः ॥ १२ ॥
 
सोऽयमिति । यत्र श्रीकृष्णे सौहार्दादिभिः योगभेदैः श्रीकृष्णे मनोनि-
वेशनोपायविशेषैः। तत्र सौहार्दात् पाण्डवादयः, भीत्या कंस:, स्नेहाद् यदवः,
द्वेषात् शिशुपालादयः, अनुरागाद् गोप्यः । सर्वतः सर्वत्र । सर्वे लोकाः समस्ता-
माध्यात्मिकादिरूनाम् आर्ति पीडां तीर्त्वा अतिक्रम्य अमृतपदं मोक्षम अगुः
जग्मुः । विश्वार्तिशान्त्यै सकलपीडापहत्यै भक्तेः प्रारब्धायाः पूर्त्यै प्रवृद्धये च
 
भूयाः ॥ १२ ॥
 
*
 
इत्यर्जुन पनपनवर्णनम् अटाशीतितमं दशकं सद्विकम् ।
 
[स्कन्धः - १०
 
रमाजाने ! जाने यदिह तव भक्तेषु विभवो
 
न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशान्ति कृत्वैव प्रदिशसि ततः काममखिलं
 
प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ १ ॥
 
."
 
रमाजान इति । हे रमाजाने ! लक्ष्मीपते ! तव भक्तेषु विभवः फलं न सद्यः
किञ्चिद् भजनमात्र एव सम्पद्यः परिणतो न भवति यत् तद् मदकृत्त्वाद् विभ-
वस्य मदजनकत्वादिति जाने । अतः अशमिनाम् अशान्तानां प्रशान्ति कृत्वैव
कामम् अभीष्टमखिलं प्रदिशसि । प्रागेव प्रशान्तेषु तु क्षिप्रं प्रदिशसि । अतस्त्वदीये
त्वद्भक्ते न खलु च्युतिकथा भ्रंशस्य कथा शब्दोऽपि नास्त्येव ॥ १ ॥
 
विधिशङ्करादयस्तु न तथेत्याह --
 
सद्य:प्रसादरुपितान् विधिशङ्करादीन
केचिद् विभो ! निजगुणानुगुणं भजन्तः ।
 
सम्पद्यतॆ इति सम्पद्यः। 'कृभ्वस्तियोगे सम्पद्यकर्तरि' (५. ४. ५०.) इत्यत्र
 
कर्तृशप्रत्ययान्ततया निपातनात् साधुता ।