2023-02-16 08:52:41 by ambuda-bot
This page has not been fully proofread.
अर्जुनगर्वीपनयनबर्णनम् ।
नयेतं द्रागेनानिति खलु वितीर्णान् पुनरमून्
द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ ९ ॥
दशकम् - ८८]
युवामिति । युवां कृष्णार्जुनौ मामेव मदंशभूतावेव द्वौ अधिकविवृता-
न्तर्हिततया विभिन्नौ। एकः शुद्धसत्त्वोपाधिकतयाधिकविवृतः प्रकटितनिजैश्वर्यः ।
अन्य उपाध्यन्तर्हितनिजैश्वर्यः । अतो जीवेश्वररूपेण विभिन्नौ द्विधाभूतौ सम्द्रष्टुं स-
मीपे द्रष्टुमहं स्वयं द्विजसुतानहार्षम् आनीतवान् । एनान् द्राग् झटिति नयेतं द्विज-
वरनिकटं प्रापयेतम् इति वितीर्णान् दत्तान् अनून् द्विजसु ान् आदाय ब्राह्मणायादाः
दत्तवान् । पाण्डुजनुषी पार्थेन प्रणुतः स्तुतो महिमा यस्य ॥ ९ ॥
३०१
एवं नानाविहारैर्जगदभिरमयन् दृष्णिवंशं प्रपुष्ण-
भीजानो यज्ञ भैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।
भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः
पूर्ण ब्रह्मैव साक्षाद् यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥१०॥
एवमिति । भूभारक्षेपमिषेण मनुजतया रूषितो बहिर्लिप्तः ॥ १० ॥
प्रायेण द्वारवत्यामवृतयि तदा नारदस्त्वद्रसाई-
स्तस्माल्लेभे कदाचित् खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् ।
भक्तानामग्रयायी स च खलु मतिमा नुद्धवस्त्वत्त एव
प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते वदर्याम् ॥ ११ ॥
सोऽयं कृष्णावतारो जयति तव विभो ! यत्र सौहार्द भीति-
स्नेहद्वेषानुरागप्रभृतिभिरतुलैर श्रमैर्योगभेदैः ।
-
प्रायेणेति । श्रीनारदः प्रायेण दक्षशापाच्चिरमेकत्र स्थातुमशक्यतया गता-
गतपूर्वकं द्वारवत्यामवृतद् वर्तते स्म । तदा तस्मान्नारदात् । जनहिताय भक्तानां
ज्ञानोपदेशाय ॥ ११ ॥
१. 'या ए' क. ग. पाठः,