This page has been fully proofread once and needs a second look.

अर्जुनगर्वीपनयनबर्णनम् ।
 
नयेतं द्रागेनानिति खलु वितीर्णान् पुनरमून्
 

द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ ९ ॥
 
दशकम् - ८८]
 

 
युवामिति । युवां कृष्णार्जुनौ मामेव मदंशभूतावेव द्वौ अधिकविवृता-

न्तर्हितत[^१]या विभिन्नौ। एकः शुद्धसत्त्वोपाधिकतयाधिकविवृतः प्रकटितनिजैश्वर्यः ।

अन्य उपाध्यन्तर्हितनिजैश्वर्यः । अतो जीवेश्वररूपेण विभिन्नौ द्विधाभूतौ स<flag>म्द्र</flag>ष्टुं स-

मीपे द्रष्टुमहं स्वयं द्विजसुतानहार्षम् आनीतवान् । एनान् द्राग् झटिति नयेतं द्विज-

वरनिकटं प्रापयेतम् इति वितीर्णान् दत्तान् अनूमून् द्विजसुतान् आदाय ब्राह्मणायादाः

दत्तवान् । पाण्डुजनुषीषा पार्थेन प्रणुतः स्तुतो महिमा यस्य ॥ ९ ॥
 
३०१
 

 
एवं नानाविहारैर्जगदभिरमयन् दृवृष्णिवंशं प्रपुष्ण-
भी

न्नी
जानो यज्ञ भैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।

भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः
 

पूर्णं ब्रह्मैव साक्षाद् यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥१०॥

 
एवमिति । भूभारक्षेपमिषेण मनुजतया रूषितो बहिर्लिप्तः ॥ १० ॥

 
प्रायेण द्वारवत्यामवृतयि तदा नारदस्त्वद्रसार्द्र-

स्तस्माल्लेभे कदाचित् खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् ।

भक्तानामग्रयायी स च खलु मतिमा नुद्धवस्त्वत्त एव

प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते दर्याम् ॥ ११ ॥
 
सोऽयं कृष्णावतारो जयति तव विभो ! यत्र सौहार्द भीति-
स्नेहद्वेषानुरागप्रभृतिभिरतुलैर श्रमैर्योगभेदैः ।
 
-
 

 
प्रायेणेति । श्रीनारदः प्रायेण दक्षशापाच्चिरमेकत्र स्थातुमशक्यतया गता-

गतपूर्वकं द्वारवत्यामवृतद् वर्तते स्म । तदा तस्मान्नारदात् । जनहिताय भक्तानां

ज्ञानोपदेशाय ॥ ११ ॥
 

 
सोऽयं कृष्णावतारो जयति तव विभो ! यत्र सौहार्दभीति-
स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः ।
 
[^
]. 'या ए' क. ग. पाठः,