This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्थः - १०
 
याम्यामैन्द्रीरीं तथान्याः सुरवरनगरीर्विद्ययासाद्य सद्यो
 

मोघोद्योगः पतिष्यन् हुभुजि भवता सस्मितं वारितोऽभूत् ॥ ६ ॥

 
मानीति । स पार्थः मानी आश्रितरक्षणेऽद्वितीयोऽहमित्यभिमानी । अत

एवं त्वां परबन्धुसव्यष्टमप्यपृष्ट्वा महास्यै:त्रैः आग्नेयादिभिः सूतिगेहं रुन्धानः कृतशर-

पञ्जरः दृष्टनष्टे जातमात्र एवं सशरीरमदर्शनं गते याम्यां यमनगरीम् ऐन्द्रीम्

इन्द्रस्य नगरीम् अन्याः वरुणकुबेरादिसुरवरनगरी: विद्यया योगैश्वर्येण आसाद्य

प्राप्य हुतभुजि अग्नौ पतिप्यन् पतिष्यन् पतितुमारब्धो भवता सस्मितम् । पौरुषस्य दैवसा-

पेक्षत्वम् इदानीं किमवसितमित्यर्जुनस्य भावावेदनं तव स्मितहेतुः ॥ ६॥
 
३००
 

 
साथैर्धं तेन प्रतीचीचीं दिशमतिजविना स्यन्दनेनाभियातो
 

लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् ।

चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां

पारे त्वं पाप्राददर्शः किमपि हि तमसां दूरदूरं पदं ते ॥ ७ ॥

 
सार्मिति। अतिजबिविना वेगातिशयवता । वारां पारे कारणजलमध्य-

वर्तिनि किमपि अनिर्देश्यं तमसां दूरदूरम् अत्यंय[^१]न्तदूरस्थितम् ॥७॥
 

 
तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधायै-

रावीतं पीतचेलं मतिनवप्रतिनवजलदश्यामलं श्रीमदङ्गम् ।

मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां
 

त्वामेव त्वं परात्मन् ! प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ ८ ॥
 

 
तत्रेति । तिसृणां मूर्तीनामीशितारं नियन्तारम् अत एव परं जगत्कारणं

श्रुतीनामेकमर्थं प्रधानप्रतिपाद्यं क्षेमरूपं पुरुषार्थभूतं त्वामेव त्वं नेमिथ नमश्च-

कृषे ॥ ८ ॥
 

 
युवां मामेव द्वावधिकविवृतान्तर्हिततया

विभिन्नौ सन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् ।
 

 
[^
]. 'हिंतिदू' क. पाठ:.
 
ठः