This page has not been fully proofread.

दशकम् - ८८]
 
अर्जुनगर्वापनयनवर्णनम् ।
 
२९९
 
गच्छन्निति । द्विमूर्ति: अङ्गीकृतशरीरद्वयः । एकेन बहुलाश्वेन भूरि-
भिर्विभवैः उपकरणैः विहितः कृतः उपचार: पूजा यस्य ॥ ३ ॥
 
अथ द्विजस्य मृतपुत्रानयनेनार्जुनस्य गर्वापनयनपूर्वकमात्माने तत्त्वबुद्ध्या-
पादनप्रकारमाह-
भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं
 
को वा दैवं निरुन्ध्यादिति किल कथयन् विश्ववोढाप्यसोढाः ।
जिष्णोर्ग विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं
तत्त्वारूढां विधातुं परमतमपद प्रेक्षणेनेति मन्ये ॥ ४ ॥
 
भूय इति। दैवं स्त्रकर्मफलं को निरुन्ध्याद् अन्यथाकर्ते कः समर्थ इति
कथयन् त्वं तस्य द्विजस्य प्रलापानपि विश्ववोढा जगदीश्वरोऽपि असोढाः मर्षि-
तवान्। परमतमस्य पदस्य वैकुण्ठपदस्य प्रेक्षणेन अस्य जिष्णोः गर्वं विनेतुम्
अपनेतुम् । मनुजधिया त्वयि कुण्ठितां निश्चयरहितां तत्त्वारूढां विधातुम् इद-
मिति मन्ये ॥ ४ ॥
 
नष्टा अष्टास्य पुत्राः पुनरपि तब तूपेक्षया कष्टवादः
स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः ।
मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विश्वर्यमरोदं
 
श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥ ५ ॥
 
नष्टा इति । अस्य द्विजवरस्य अष्ट पुत्रा नष्टाः । तदा तु तवोपेक्षया
द्विजसुतरक्षणौदासीन्याद् जनानां कष्टवादो लोकापवादो जातः । तदवसरे पार्थो
द्वारकाम् आर प्राप । मैत्र्या सख्येन तत्रोषितः उवास । अनुपहृतसुतः अदत्तज-
निष्यमाणकुमारश्चेद् अहं कृशानुम् अग्निं सन्निवेक्ष्ये प्रविशामि ॥ ५ ॥
 

 
मानी स त्वामवृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्र
रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे ।
 
१. 'नसि' क. पाठः. २. 'ष्णवप' क. ग. पाठ:.