This page has been fully proofread once and needs a second look.

दशकम् - ८८]
 
अर्जुनगर्वापनयनवर्णनम् ।
 
२९९
 
गच्छन्निति । द्विमूर्ति: अङ्गीकृतशरीरद्वयः । एकेन बहुलाश्वेन भूरि-

भिर्विभवैः उपकरणैः विहितः कृतः उपचार: पूजा यस्य ॥ ३ ॥
 

 
अथ द्विजस्य मृतपुत्रानयनेनार्जुनस्य गर्वापनयनपूर्वकमात्मानेमनि तत्त्वबुद्ध्या-

पादनप्रकारमाह-
-
 
भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं
 

को वा दैवं निरुन्ध्यादिति किल कथयन् विश्ववोढाप्यसोढाः ।

जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं

तत्त्वारूढां विधातुं परमतमपद प्रेक्षणेनेति मन्ये ॥ ४ ॥
 

 
भूय इति। दैवं स्त्रकर्मफलं को निरुन्ध्याद् अन्यथाकर्ते कः समर्थ इति

कथयन् त्वं तस्य द्विजस्य प्रलापानपि विश्ववोढा जगदीश्वरोऽपि असोढाः मर्षि-
तवान्

तवान्[^१]
। परमतमस्य पदस्य वैकु[^२]ण्ठपदस्य प्रेक्षणेन अस्य जिष्णोः गर्वं विनेतुम्

अपनेतुम् । मनुजधिया त्वयि कुण्ठितां निश्चयरहितां तत्त्वारूढां विधातुम् इद-

मिति मन्ये ॥ ४ ॥
 

 
नष्टा अष्टास्य पुत्राः पुनरपि त तूपेक्षया कष्टवादः

स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः ।

मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विश्वर्यमप्रवर्यप्ररोदं
 

श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥ ५ ॥
 

 
नष्टा इति । अस्य द्विजवरस्य अष्ट पुत्रा नष्टाः । तदा तु तवोपेक्षया

द्विजसुतरक्षणौदासीन्याद् जनानां कष्टवादो लोकापवादो जातः । तदवसरे पार्थो

द्वारकाम् आर प्राप । मैत्र्या सख्येन तत्रोषितः उवास । अनुपहृतसुतः अदत्तज-

निष्यमाणकुमारश्चेद् अहं कृशानुम् अग्निं सन्निवेक्ष्ये प्रविशामि ॥ ५ ॥
 

 

 
मानी स त्वामवृपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्
रै
रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे ।
 

 
[^
]. 'नसि' क. पाठः.
[^
]. 'ष्णवप' क. ग. पाठ:.
 
ठः