This page has been fully proofread once and needs a second look.

२९८
 
नारायणीये
 
[स्कन्धः - १०
 
स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ ।

त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश ! हरस्व मे गदान् ॥ १० ॥
 

 
स इति । सः स्वयं रत्नशालासु कामोद्दीपन विभा[^१]वेषु वसन्नपि समुन्न-

मद्भक्तिभरः क्रमात् प्रवृद्धभक्त्यतिशयः अमृतं मोक्षं ययौ ॥ १० ॥
 

 
इति कुचेलोपाख्यानं सप्ताशीतितमं दशकम् ।
 

 
मागेवाचार्य पुत्रापुत्राहृतिनिशमनया स्वीयपद्मनुवीक्षां
 
काङ्क्षन्त्या मातुरुक्त्या सुतलभुवि वलिं प्राप्य तेनार्चितस्त्वम् ।
धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना-
नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥ १ ॥
 
प्रागेवेति । मृतं पुत्रमानीयाचार्य
दक्षिणां कृतवानिति निशमनया श्रवणेन
कंसहत
स्वीयषट्सूनुवीक्षां प्रागेव अतिचिरं
काङ्क्षन्त्या मातुर्देवक्या उक्त्या महा-
रुक्त्या सुतलभुवि वलिं प्राप्य पूर्व मरीचेः पुत्रान् स्मरोद्गीथपरिष्वङ्गपतङ्गक्षुद्रभुग्नृण्याख्यान् पुनश्च
तेनार्चितस्त्वम् ।
धातुर्ब्रह्मणःतुः शापाड् हिद्धिरण्यकारीयान्वितकशिपुभवान् शौरिजान् कंसभग्ना-
नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥ १ ॥
 
प्रागेवेति । मृतं पुत्रमानीयाचार्यदक्षिणां कृतवानिति निशमनया श्रवणेन
कंसहतस्वीयषट्सूनुवीक्षां प्रागेव अतिचिरं काङ्क्षन्त्या मातुर्देवक्या उक्त्या महा-
बलिं प्राप्य पूर्वं मरीचेः पुत्रान् स्मरोद्गीथपरिष्वङ्गपतङ्गक्षुद्रभुग्घृण्याख्यान् पुनश्च
धातुर्ब्रह्मणः शापाद् हिरण्यकशिपुभवान् शौरिजान्
वसुदेवपुत्रान् मात्रे प्रदर्श्य

स्वपदं स्वर्गम् अनयथाः प्रापयामासिथ ॥ १ ॥
 

 
श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् ।

युगपत् त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ २ ॥
 

 
श्रुतदेव इति । श्रुतं विश्रुतम् ॥२॥
 

 
गच्छन् द्विमूर्तिरुभयोर्युगपनिकेत-

मेकेन भूरिविभवैविंर्विहितोपचारः ।

अन्येन तद्दिनभृतैश्च फलौदनाद्यै-

स्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ ३ ॥
 

 
[^
]. 'भ' क. पाठः